________________
सर्ग १६ श्लो. 33-3५]
हीरसोभाग्यम
६९३
बल्ली ताम्बूली नागपर्यायवल्ल्यपि' इति हैम्याम् । मण्डपा यस्मिन् । पुनः किंभूते । स्फुरन्तो विकसन्तः प्रकटीभवन्तो वा दृश्यमाना वा विविधा विष्टरा वृक्षा आसनानि वा यस्मिन् । 'क्षितिरुहः कारस्करो विष्टरः', तथा 'विष्टरः पीठमासनम्' इति द्वयममि हैम्याम्। विष्टरः पुंसि । पुनः किंभूते । पृथुलानि विस्तीर्णानि शैलानि शिलासमूहा वा । यथा स्नातस्यास्तुतौ 'मन्दररत्नशैलशिखरे' एतस्यार्थद्वयम् । यथा मन्दरेषु पञ्चसु सुमेरुषु मध्ये रत्नं श्रेष्ठो यः सुदर्शनाख्यो मेरुः शैलः पर्वतस्तस्य शिखरे शृङ्गे । अपरोऽप्यर्थः- यथा मन्दरस्य मेरो रत्नानां शैलाः शिलासमूहा यस्मिस्तादृशे इति । ततो पृथुलानि विपुलानि शलानि एव तल्पानि पल्यङ्काः शय्यास्तैरङ्किते कलिते युक्ते । पुनः किंभूते । स्मिता विकसिता ये द्रुमा वृक्षास्तेभ्यो गलन्ति वातादिवशात्स्वभावपरिपाकाद्वा निष्पतन्ति यानि मणीचकानि कुसुमानि तेषामुपचारः प्रकरः 'पगर' इंति लोकप्रसिद्धः रचनाधिशेषस्तेनाञ्चिते सहिते । पुनः किंभूते। द्विरेफाणां भ्रमराणां रवा गुञ्जितानि त एव गानित गीतिर्जात यस्मिन् तादृशमनिलेन पवमानेन ललन्तीनां चपलीभवन्तीनां लतानां विविधजातिवलीनां ताण्डवं नाटकं यस्मिन् । सर्वाण्यप्येतानि चित्रेषणानि भवनेष्वर्थात्संबध्यन्ते । किं चात्र भवनशब्देन राजमन्दिरादि ग्राह्यम् । तत्र सर्वेऽप्यर्थाः संभवन्त्येव दृश्यन्ते च । अथ वा पुण्याढयानामाढ्यानामपि भवने भवन्ति शालिभद्रादिमन्दिरवत् इति ॥ युग्मम् ॥
શ્લોકાઈ
ઝરણુઓના વહી રહેલા જલપ્રવાહના વિસ્તારથી જેનું પૃથ્વીતલ શીતલ છે, સૂર્યનાં પ્રચંડ કિરણનો જેમાં સંચાર છે, જેમાં વિલાસી કદલીગ્રહે છે, જેમાં વિવિધ પ્રકારનાં દર્શનીય વૃક્ષે છે, જે શિલારૂપી પલંગ વડે યુક્ત છે, જે વૃક્ષનાં ખરી પડેલા વિકસ્વર પુના સમૂહથી વ્યાપ્ત છે, અને જેર્મા ભ્રમરોના ગુંજારવથી મિશ્ર પવન વડે દેલાયમાન થયેલી લતાએ છે, તેવી વનભૂમિ પવનથી ડેલતી શાખાઓ રૂપી હાથ વડે પરસેવાથી રેબઝેબ થઈ ગયેલા યાત્રિકોને જાણે પોતાના ઘરની જેમ શ્રમ દૂર કરવા માટે બોલાવતી ન હોય! છે ૩૩ ૩૪
कचिद्विकचकानने मधुपगीतिमिश्रां गिरं ___ जगुर्मुदु फलादनाः श्रुतिसुखां विदग्धा इव । क्वचिच्च ननृतुर्नटा इव शिखण्डिनां मण्डला
जगर्न जलदः क्वचित्करिघटेव भूमीभृतः ॥ ३५ ॥ क्वचित्कुत्रापि शत्रुजयमेखलाशालिप्रदेशे विकचे विकसितकुसुमितसान्द्रद्रुमद्रोणीके कानने वने फलादनाः शुकाः मधुपानां कुसुममकरन्दपानान्मादमेदुरभ्रमराणां गीतिभिः गुञ्जारवैर्मिश्रां करम्बीकृतां गिरं वाणीं मृदु सुकुमारं मधुरमतृप्तत्वेन श्रवणपुटकनिपीयमानं