________________
सर्ग १६ श्लो० ३१-३२]
हीरसौभाग्यम्
६९१
જાણે મનરૂપી મદોન્મત હાથીને નિયંત્રણ કરવા માટેની મજબૂત શૃંખલા ન હોય, તેવી डती. ॥30॥
प्रपासु गिरिपद्धतेरमृतपानवद्यात्रिकै___ रपीयत सितोपलाकलिततोयमातृप्तितः । पुनर्मुनिमहीन्दुनावनिधराधिरोहोदयत्प्रमोदरसमिश्रिता शमसुधा तदास्वाधत ॥ ३१॥
____ तदा शत्रुजयप्रथममेखलाधिरोहणसमये गिरेविमलाचलस्य पद्धतेर्मार्गस्य पद्धतौ मार्गे वा वर्तमाना याः प्रपाः पानीयशालास्तासु यात्रिकैः श्रीशचुंजययात्राकारकैलॊकैरमृतस्य पीयूषस्य पानवद्धीतिरिव । 'धीतिः पाने' इति हैम्याम् । 'धेट पाने' । धयनं धीतिरिति व्युत्पत्तिः । अथ वा मुक्तिरसास्वादवत् । 'अमृतं मुक्तिपानीयपीयूषु' इत्यनेकार्थः । आतृप्तितस्तृप्ति मर्यादी कृत्य । आङादियोगे पञ्चमी। सितोपलाभिः शर्कराभिः कलित करम्बितं बहुव्याप्तं तोयं पानीयमपीयत पीतम् । पुनीरविजयसूरिणा तु शमसुधा उपशान्तरसनानी सुधा समास्वाद्यत सम्यक् पोयते स्म । किंभूता शमसुधा। अवनिधरे शत्रुजयशैले यदधिरोहणं चढनं तेनोदयत्प्रकटीभवन यः प्रमोदाभिधरसो हर्षोत्कर्षः आनन्दातिरेकनिस्पन्दस्तेन मिश्रिता करम्बिता व्याप्ता ॥
લોકાથ
શત્રુંજયના પહેલા હડા સુધીના આરેહણ પછી યાત્રિકે એ સાકરમિશ્રિત પાણીનું આકંઠ પાન કર્યું, અને આચાર્યદેવે વિમલગિરિનાં દર્શનથી ઉત્પન્ન થયેલા આનંદના અતિરેકથી વ્યાસ શમસુધાનું પાન કર્યું. એ ૩૧ છે
स्फुरत्खरकरोद्धरद्युतिवितानसंतापिता
अनाञ्जनितनिझरोत्करजलाप्लवा वायवः । भवातिविधुरीकृतानिव महात्मनां संगमाः ।
मृजन्ति शिशिरान्गिरौ क्षणमपास्य तापं तनौ ॥ ३२ ॥
गिरी पुण्डरीकपर्वते वायवः पवनाः जनान्यात्रिकलोकान् क्षण क्षणमात्र शिशिरान शीतलान् सृजन्ति कुर्वन्ति । किं कृत्वा । निमेषमात्र च तनौ शरीरे ताप धर्ममपास्य निवार्य । जनान किंभूतान् । स्फुरन्दीप्यमानस्तीव्र तपन्वा खरकरश्चण्डरश्मिः सूर्यस्तस्योदधुराणामुत्कटानां द्युतीनां कान्तीनां वितानेन समूहेन संतापितान्पीडितान अतितप्ती