________________
होरसौभाग्यम्
[ सर्ग १६ श्लो० ३०
એને કેલાહલ થતાં અને રાત્રિને શત્રુ સૂર્ય ગગનમંડલમાં આવતાં બાલવૃદ્ધ અને યુવાન સ્ત્રીપુરુષ સહિત સકલસંઘની સાથે દિશાઓને ભરી દેતાં એવાં વાજિંત્રોના વાદનપૂર્વક હીરવિજયસૂરિજીએ યાત્રા કરવા માટે મુક્તિમંદિરની નિસરણીસમાન, ગગન ચુંબી વિમલગિરીની પગદંડીએ ચઢવાની શરૂઆત કરી. ૨૮ ૨૯ છે
क्रमादचलचक्रिणः श्रमणपुंगवः पद्यया
रुरोह भवसागरं किमु तितीर्षुभिः क्लृप्तया। निबद्धमिव श्रृङ्खलां हृदयदन्तिनो मेखलां
सुपर्वतरुनन्दनामिव सुमेरुभूमीभृतः ॥ ३०॥
श्रमणपुगवः सूरीन्द्रः क्रमादनुक्रमेण पद्यया सेतुना प्रस्तरनिबद्धमार्गण 'पाज' इति । प्रसिद्धेन कृत्वा अचलचक्रिणी गिरीन्द्रस्य । सर्वतीर्थाधिराजत्वात्पर्वतसार्वभौमत्वम् । तथा जैनमते प्रातः प्रतिक्रमणप्रान्तप्रत्याख्यानकरणसमयादौ 'सकलतीर्थाधिराजश्रीशत्रुजयाय नमः' इत्युच्चार्य प्रत्याख्यान क्रियते इति । मेखलां मध्यभागमारुरोहाध्यासामास । किंभूतया पद्यया क्लप्तया रचितया । उत्प्रेक्ष्यते-भवसागर संसारसमुद्र तितीर्ष भिस्तरीतुमिच्छुभिरिव कृतया रामचन्द्रादिवत्सेतुना समुद्रः समुत्तीर्यते । किंभूतां मेखलाम् । हृदयानि मनांसि । 'हृञ्चेतो हृदयं चित्तम्,' तथा 'स्तनान्तर हृद्धृदयम्' इति द्वयमपि हैम्याम् । अत एवानेकार्थः -'हृदयं मनो वक्षश्च' । तान्येवोन्मत्तत्वाद्दन्तिनः करिणः तन्निबद्ध नियन्त्रयितु शृङ्खला निगडमिव । शृङ्खलशब्दस्त्रिलिङ्गः । 'शृङ्खला निगडोऽन्दुकः' इति हैम्याम् । तथा 'नालप्रणालपटलागलश्रृङ्खलकंदलाः' इति लिङ्गानुशासने स्वतनिलिने। तथा मेखलां मुञ्जदोरिकामिव । दोरिकया हि करिणो नियन्त्र्यन्ते । यथा चम्पूकथायाम-'ब्राह्मीव दौर्जनी समेखला समे मित्रे । अमित्रे च समभावभाजि साधौ विषये वेला मत्सरवती दौर्जनी श्रेणी ब्राह्मी तु सह मेखलया मौञ्जीदोरिकया वत'ते या' इति चम्पूटिप्पनके । इति गर्भितोत्येक्षा । पुनः किंभूताम् । सु शोभनानि पर्वाणि शाखादिनिर्गमस्थानानि येषां येषु वा तादृशेवृक्ष स्तरुभिः नन्दयति प्रीणाति समृद्धि प्राप्नोतीति वा । उत्प्रेक्ष्यते-सुमेरुभूमीभृतो मन्दरमहीधरस्य मेखलां नितम्बमिव । किंभूताम् । सुपर्वतरुभिः कल्पवृक्षैनन्दयति समृद्धि प्राप्नोति । अथ वा कल्पद्रकलितनन्दनवती । एतावता प्रथममेखलामारूढवान् ॥ इति पद्यया प्रथममेखलारोहणम् ॥
શ્લેકાર્થ
ત્યારપછી અનુક્રમે આચાર્ય દેવે, સંસારસમુદ્રને તરવા માટેની જાણે પાજ ન હોય, તેવી શત્રુંજયની પાજ ઉપર આરોહણ કર્યું, અને જેમ કલ્પવૃક્ષ વડે મેરુપર્વતની મેખલા શોભે તેમ આચાર્યદેવ વડે પ્રથમ પાજ (પહેલે હેડે) શોભાને પામી તે મેખલા (પાજ)