________________
सर्ग १६ श्लो० २८-२९]
हीरसौभाग्यम्
६८९
गते तमसि तद्मिरेरिव निरीक्षणात्तत्क्षणा___ खगैर्गुरुजयारवे किमु कृतेऽथ सांराविणे । समीयुषि खरविषि द्विषि निशां नभोमण्डले ___ विधित्सति सहामुना विमलशैलयात्रामिव ॥ २८ ॥ सुधाशनपथातिथिं शिवनिकेतनिःश्रेणिका
मिव व्रतिशतक्रतुर्विमलशैलपद्यां ततः। सवालवरवणिनीनिवहनैकतौर्यत्रिका
नुयातजनसंयुतः समधिरोहुमारब्धवान् ॥ २९ ॥
. स व्रतशतक्रतुीरविजयसूरीन्द्रः विमलशैलस्य शजयाद्रेः पद्यां सेतुं लोकप्रसिध्द्या 'पाज' इति समधिरोढुमारब्धवान प्रारेभे । किंभूतः सः । सह बालाः कुमारः कुमारिकाश्च तैस्ताभिश्च । 'सरूपाणामेकशेषे' । वर्तन्ते यास्तादृश्यो वरवर्णिन्यः प्रधान स्त्रियः। तीर्थयात्रादिधर्मकारकत्वात् प्राधान्यम् । अथवा उत्तमा स्त्री जात्या गुणैर्वा । 'उत्तमा वरवर्णिनी' इत्यमरः । तासां निवहाः प्रकराः । तथा नैकानि बहूनि अनेकजातीयानि वा तौर्यत्रिकाणि गीतनत्यवाद्यानां त्रिकाणि तैरनयाताः सहिता ये जना यात्रिकसंघलोकास्तैः संयत: परिकलितः । किंभूतां विमलाचलपद्याम् । सुधाशनानां देवानां पन्था मार्गा गगनं तस्यातिथि प्राघुणिकीम्। गगनावगाहिनीमित्यर्थः । उत्प्रेक्ष्यते-शिवनिकेतनिःश्रेणिकामिव मोक्षप्रासादे अधिरोहणार्थमधिरोहणिकामिव 'नीसरणी' इति लोकप्रसिद्धाम् । कस्मिन् सति । तत्क्षणातत्कालात् शीघ्रमेव तमसि अन्धकारे गते सति लोकान्निःसृते सति । उत्प्रेक्ष्यते-तद्रेिः स चासौ विमलाचलनामा गिरिः पर्वतश्च तस्य निरीक्षणाद्दर्शनादिव पापे याते । 'तमोऽज्ञानेऽन्धकारेऽधे' इत्यनेकार्थः । अथ पश्चात्तमोगमनानन्तर खगैः प्रातःप्रबुद्धविहंगमैः सांराविणे मिश्रास्पष्टशब्दे कृते सति । अथ वा समन्ताद्रवः । यदुक्त नैषधे–'तटतरुवेगश्रेणीसांराविणरिव सांप्रत सरसि विगलन्निद्रामद्राजनिष्ट सरोजिनी' इति । 'संपूर्वा. द्रौतेरभिविधौ भावे इनुण । तस्मादिनुणः मांराविणानि ते' इति तवृत्तौ साधना । उन्प्रेक्ष्यते -गुरोहीरविजयसरे यारवे विहिते सति किमु पुनः कस्मिन् सति खरविषि भास्करे नभोमण्डले गगनाङ्गणे समीयुषि सति संप्राप्तवति । किंभूते । निशां रात्रीणां द्विषि वैरिणि तद्विनाशकत्वात् । उत्प्रेक्ष्यते-अमुना सूरीन्द्रेण सह सार्ध विमल शैलस्य शत्रुजयाद्रेर्यात्रां विधित्सतीव ॥ युग्मम् ॥
શ્લેકાર્થ
જાણે ગિરિરાજનાં દર્શનથી પાપને સમૂહ ચાલી ગયે ન હોય તેમ જગતમાંથી અંધકાર દૂર થતાં, ગુરુમહારાજને જયજયકાર કરતા ન હોય તેવા કુકડા આદિ પક્ષી
हि० सौ० ८७