________________
६८८
हीरसौभाग्यम्
[सर्ग १६ श्लो० २६-२७
श्राद्धैः जिनश्रावकैः । अथ च शिवसदने महेश्वरजनैः कश्चिवसति । उत्प्रेक्ष्यते- अमृतपत्तन मुक्तिनामपुटभेदन प्रति चरन् गच्छन् पथो मार्गस्यातिशयेन दूरभावाहवीयस्तया किमन्तरा निवसति स्म । किंवत् । अप्रतिमसार्थसाथै शवत् । यथा अप्रमितः प्रमाणरहितः सार्थः मनुष्यसंघो यस्य तादृशः सार्थपतिः किमपि नगर गन्तुमिच्छन्मार्गस्यातिदूरत्वेन अन्तरा मार्गमध्ये एव निशायां निवसति ॥
લેકાર્થ
જેમ અસંખ્ય મનુષ્યોની સાથે દેશાંતર પર્યટન કરતા સાર્થવાહ રાત્રિના સમયે કેઈપણ સ્થાને વિશ્રામ કરે તેમ તળેટીએ આવ્યા બાદ હીરવિજયસૂરિજીએ ભાવિક શ્રેષ્ઠીઓની સાથે પર્વતની નીચેના ભાગમાં આવેલા શિવમંદિરમાં વિશ્રામ કર્યો. ૨૬
हरेर्मुगदृशामिवोत्पलदृशां लसद्गीतिभिः
पुनर्मुदितनाटयकुद्धटितताण्डवाडम्बरैः। निनाय निखिलां निशां वशिशशी स धर्मक्रिया
विनिर्मितिभिराश्रये रजनिजानिचूडामणेः ॥२७॥
स वशिशशी हीरविजयसूरिचन्द्रः रजनी रात्री जाया पत्नी यस्य । 'जायाया निङ्' इति निप्रत्ययः । 'लोपो व्योवलि' इति यकारस्य लोपः। रजनिजानिरिति सिद्धम् । रजनिजानिश्चन्द्रः चूडामणिः शिरोरत्नं यस्य । एतावता ईश्वरस्तस्याश्रये वसतौ शंकरप्रासादे धर्मस्य स्वाचारलक्षणस्य क्रिया अनुष्ठान सम्यक्तया प्रतिक्रमणादिकरणं तस्य विनिर्मितिभिर्विधानैः कृत्वा निखिलां समस्तां चतुर्यामवतीं निशां रात्री निनायातिचक्राम । यथा स्वधर्मानुष्ठानैस्तथा । पुनः काभिः । लसन्तीभिश्चेतोहराभिर्गीतिभिर्गानैः । कासाम् । उत्पलदशां कुवलयलोचनानां तरुणीनाम् । उत्प्रेक्ष्यते-हरेरिन्द्रस्य मृगद्दशामिन्द्राणीनामिव । पुनः कैः । मुदितैर्यथेप्सितदानाधिगमादानन्दमेदुरैर्नाट्यकृद्भिर्नर्तकैर्घटितैनिर्मितेस्ताण्डवानां नाटकानामाडम्बरैः ॥ इति शत्रुजयान्तिकशिवप्रासादे वासकावस्थाम् ॥
કલેકાર્થ
ઇન્દ્રાણી સમાન મૃગનયન સ્ત્રીઓનાં ગવાતાં ગીતે વડે, હર્ષિત બનેલા નાટયકાર વડે કરાતાં નાટક વડે અને ધર્માનુષ્ઠાન વડે આચાર્યદેવે સમસ્ત રાત્રિ ચન્દ્રમૌલિ એવા श४२ना महिमा (शिवमहिमा) ५॥२ ४३१. ॥ २७ ॥