________________
सर्ग १६ श्लो० २२-२३]
हीरसौभाग्यम्
यद्यस्मात्कारणात् गुरुक्रमाणां पूज्यपादचरणानामतिक्रमणमहणोल्लङ्घन श्रेयसे कल्याणाय नोदयेत नो जायेत । 'प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः' इति रघुवंशे ॥
કાર્થ
શત્રુંજય તીર્થની યાત્રા કરવામાં ઉત્સુક અને મોક્ષરૂપી મકરંદનું પાન કરવામાં લુપી ભ્રમર જેવા સંઘે પહેલાં શ્રીહીરવિજયસૂરિજીનાં ચરણકમલે વંદન કર્યું, કારણ કે ગુરુ મહારાજનાં ચરણનું ઉલ્લંઘન કરવું તે હિતાવહ થતું નથી. જે ૨૨ .
वशारसिकगीतिभिर्विविधवाद्यमाद्यद्रवै
रखण्डकृतताण्डवैर्विदुरबन्दिवृन्दस्तवैः । समं प्रभुदितैजनैः प्रभुरितः प्रतस्थे गिरि सुरासुरनरोत्करैरिव जिनावनीवासवः ॥२३॥
तत इत्यध्याहार्यम् । संघागमनान्तर प्रभुहीरविजयसरिरितः पादलिप्तपुरात गिरि शत्रुजयशैल प्रति प्रतस्थे प्रचलति स्म । कथम् । समं सार्धम् । कैः । प्रमुदितैरानन्द प्राप्तैर्जनैः संघलोकैः समम् । पुनः काभिः । वशानां तरुणीनां रसिकाभिः सरसाभिः श्रवणयोः सुधारसवर्षिणीभिः विविधरसललिताभिगीतिभिर्गानैः । पुनः कैः । विविधानि बहुप्रकाराणि वाद्यानि मृदङ्गमुरजपटहझल्लरीनिःस्वानभेरीनफेरीदुन्दुभिढक्कातालकंसालवीणावंशादिमवादित्राणि तेषां माद्यद्भिः सागरगिरिगह्वरादिषु प्रतिशब्देन मदमेदुरीभवद्भिः उद्भटै रवैनिषैिः शब्दैः उद्धतध्वनिभिः । पुनः कैः । अखण्ड विच्छेदविरहितं कृतैः प्रारब्धः विरचितैस्ताण्डवैर्नाटकैः । पुनः कैः । प्रमुदिता अनर्गलदानप्राप्त्या प्रमोदकलिता जाता अथ वा विदुराः प्राज्ञा ये बन्दिनो मङ्गलपाठका मागधास्तेषां वृन्दानि संदोहास्तेषां स्तधाः स्तुतयस्तैः । अमूनि सर्वाण्यपि विशेषणानि जनविशेषणीक्रियन्ते वा बहुव्रीहिणा च योज्यन्ते । क इव । जिनाबनीवासव इव महोक्षलक्ष्मेव वा । यथा जिनराजः अथ वा वृषभध्वजो युगादिदेवः सुरा देवा असुरा दानवा नरा मनुष्याः तेषामुत्करैर्गणैः सार्ध' शत्रुजय प्रति प्रतिष्ठते । त्रयोविंशतिरपि तीर्थकराः शत्रुजये समवमृताः, तेषु ऋषभदेवो नवनवतिपूर्व वारान्समागतः । यदुक्तम्-'नवनवतिपूर्वधारान् यस्मिन् समवसयुगादिजिनः । राजादनीतहतले विमलगिरिरय जयति तीर्थम् ॥' इति पूर्वाचार्यस्तवे । तथा श्रीमन्नेमिनाथोऽपि शक्रस्तुतिमसहमानैः सुरैः परिक्षिप्तास्तदवसरागतपुरंदरप्रार्थनाप्रक्रमे गृहमे. धित्वे यावदेवेन्द्रो देवेन्द्रः समं शत्रुजये समाजगाम-इति शत्रुजयमाहात्म्ये ॥