________________
हीरसौभाग्यम्
[सर्ग १६ श्लो० २०-२१-२२
पान्थास्तपागमतीव्रतपनतापस शुष्यद्गलतालुरसनोष्ठपुटस कटविधुराः पथिका इव पिपासिता स्तृषातरलिताः सन्तः केचिजनाः सलिल पानीय पिबन्ति । पुनः क्वचन कुत्रापि सरःप्रदेशे केचन जनाः विजम्भिणी विकसनशीलांजलजानां पद्मानामावली मालिकामच्चिन्वते उच्चित्य गृहणन्ति । के इव । मालिका इव । यथा मालाकारिका अवनिरुहे वृक्षे कुसुममालिकां पुष्पपरंपरामच्चिन्वन्ति च । 'मालतीषु कुसुमश्रद्धालवो मालिकाः' इति चम्पृकथायाम् । पुनः परे अन्ये जनाः सितच्छदा राजहंसा इव तरन्ति । किंभूताः । मृगाक्ष्यो निज निजयु. वत्यः सखायो येषाम् । पुनः रसिका विविधजलकेलिकरणरसभाजो जनास्तिमिगणा मत्स्यव्रजाः इवान्तर्जल पानीयमध्ये विशन्ति । 'डबकि' इति लोकप्रसिद्धा । परे जनास्तपतॊीष्मकालस्य रविणा सूर्येण तापितास्तीव्रतापेन क्लेशिताः संतापिता इव मुदा हर्षेण प्लवन्ते स्नान्ति स्नान कुर्वते । पुनः केचिदन्ये जनाश्चिरेण बहुकालेन मिलितः संगतो य इष्टः स्वमनसोऽतिवल्लभस्तद्वत्तस्येवास्य ललितसरोवरस्य पावं न जहति नो त्यजन्ति ॥ युग्मम् ॥ इति ललितासरोवरे यात्रिकजनविविधक्रोडा ॥
પ્લેકાર્થ
એ લલિત સરોવરમાં કેટલાક માણસ હાથીઓની જેમ જલક્રીડા કરે છે, કેટલાક પથિકની જેમ તૃષાતુર બનેલા જલપાન કરે છે, કેટલાક માળીએાની જેમ કમલપુષ્પને સમૂહ એકઠો કરે છે, કેટલાક માણસે સ્ત્રીઓ સહિત રાજહંસની જેમ તરવાની કીડા કરે છે, કેટલાક રસિકે મની જેમ જલમાં પ્રવેશ કરે છે, કેટલાક સૂર્યના તાપથી સંતપ્ત બનેલા હર્ષપૂર્વક સ્નાન કરે છે, તેમજ કેટલાક માણસો લાંબા કાળે મળેલાં પ્રિયજનની જેમ સરોવરનાં પડખાંને પણ છોડતા નથી ! છે ૨૦ કે ૨૧ .
प्रमोदभरमेदुरः प्रथममेव संघस्तदा
स हीरविजयव्रतिक्षितिपतेः पदाम्भोरुहम् । अचुम्बदलिवन्महोदयमरन्दपानाभिको
गुरुक्रमविलङ्घनं यदुदयेत न श्रेयसे ॥२२॥
तदा तस्मिन् पादलिप्तपुरे समागमनावसरे प्रमोदानां स्थावरजङ्गमतीर्थानमश्चिकी. ोद्गतहर्षाणां भरेणातिशयेन मेदुरः पुष्टः स तत्तद्देशागतः संघो यात्रिकलोकप्रकरः प्रथम पूर्व शत्रुजययात्रायाः प्रागेव हीरविजयनानो वतिनां साधूनां मध्ये क्षितिपते राज्ञः पदाम्भोरुह चरणारविन्दमचुम्बच्चुम्बति स्म । ववन्दे इत्यर्थः । किंवत् । अलिवत् । यथा भ्रमरः कमल चुम्बति । किंभूतः संघः। महोदयो महानतिशायो उदयो जगदैश्वर्यलक्षणों मोक्षश्च स एव मरन्दो मधु तस्य पाने अभिकः अभिलाषुकः । प्रथमवन्दने हेतुमाह