________________
६८२
होरसौभाग्यम्
[सर्ग १६ श्लो० १७-१९
समूह_जन्ते शोभन्ते इत्येवंशीलास्तेषां द्वयोरपि कर्मधारयः। तत्रोत्प्रेक्ष्यते-धरस्य विमलाद्रेरधिविबुधैरधिष्ठायकसुरैः ईरिताः प्रणुन्नाः किमु । अथ वा सहैव एककालमेकेन वारेणव संकेत परस्परसंगमस्थान भजतीति तादृशी किमु । उताथ वा व्रतिपतेहीरविजयसूरेः सुकृतैः पुण्यैराकर्षिता अत्र शत्रुजये आकृष्यानीतेव वा कश्चिदाकर्षयति । स्वार्थ जिंप्रत्ययः । आकर्ण्यते स्मेत्याकर्षिता ॥
શ્લેકાર્થ રથ આદિ વાહને વડે અનુસરાતી અને સ્ત્રીપુરુષનાં યુગલે વડે શોભતી યાત્રિ કેની શ્રેણી એકી સાથે શત્રુંજય પર્વતની પાસે આવી પહોંચી. જાણે તેઓ વિમલા ચલના અધિષ્ઠાયક દેવે વડે પ્રેરિત થઈ ન હાય ! અથવા કોઈ સંકેત પામીને આવી ન હોય! અથવા તે શ્રીહીરવિજયસૂરિજીના પુણ્ય વડે આકર્ષાઈને આવી ન હોય૧૭
तुरङ्गममतङ्गजाग्रिमशताङ्गरङ्गन्मरु
प्रियोक्षतरबेसरोत्करपुरःसरप्राश्चिता । पुरीपरिसरावनी समजनिष्ट संघागमे ।
तदा विजयिमेदिनीरमणराजधानीव सा॥१८॥ तदा तस्मिन् यात्रिकजनवजागमनसमये पुर्याः पादलिप्तनगर्याः परिसरस्य समीपप्रदेशस्य अवनी भूमी की विजयिनो विजयकरणशीलस्य मेदिनीरमणस्य राज्ञो राजघानी स्कन्धावतार इव समजिनिष्ट संजाता। किंभूता । तुरङ्गमा अश्वा मतङ्गजा हस्तिनः तथा अग्रिमाः प्रकृष्टाः शताङ्गाः रथास्तथा रङ्गन्तो मरुप्रियाः करभाः तथा उक्षतरा महोक्षाः पुष्टबलीवर्दास्तथा वेसरा अश्वतरा: लोके 'खचर' इति प्रसिद्धास्तेषामुत्कराः समूहास्तथा पुरःसराः पादचारिणः तैः प्राञ्चिताः परिपूर्णा निभृतं भृताः॥ इति संघागमनम् ।।
કાર્ય
દેશદેશના સંઘના આગમનથી પાદલિપ્તપુરીની ભૂમિ અશ્વ, હસ્તિ, રથ, ઊંટ, વૃષભ, ખચ્ચર, ગાડાં અને મનુષ્યના સમૂહથી જાણે વિજયી રાજાની છાવણ જેવી શેભતી હતી. જે ૧૮.
जडीकरणभीतितो हिमगिरेः प्रणश्यागतं
सरः किमिह मानसं सकुलराजहंसाकुलम् । समग्रमुखसंपदभ्युदयसिद्धगोत्रान्तिके व्यभूषि ललिताभिधं सर उपेत्य संधैः समम् ॥ १९॥