________________
सर्ग १६ श्लो० १६-१७ ]
हीरसौभाग्यम्
६८१
चतुर्जलधिमेखलावनिनिकेतलोकैस्ततः
समीपमवनीभृतः सममलम्भि शोभां पराम् । पुरंदरगिरेरिवाखिलचतुनिकायामरैजिनेन्द्रजननाभिषिञ्चनमहोत्सवप्रक्रमे ॥ १६॥
ततः स्वस्वदिग्भ्यः प्रस्थितेरनन्तरं चत्वारः पूर्वापरदक्षिणोत्तरलक्षणाश्चतुःसंख्याका जलधयः समुद्रा एव मेखला काञ्ची यस्यास्तादृश्यामवनी निकेतं गृहं येषां तादृशैलॊकर्यात्रिकजनैः सममेककालमवनीभृतः अर्थाधिकाराद्यात्रासमत्वाच्च श्रीशत्रुजयगिरेः समीपं तलहट्टिकारूपपाश्वं परां प्रकृष्टां शोभामलम्भि प्रापितम् । कैरिव । अखिलचतुनिकायामरैरिव । यथा जिनेन्द्रस्य तीर्थकरस्य जननस्य जन्मनोऽभिषिञ्चनस्याभिषेकस्य । जन्माभिषेकस्ये. त्यर्थः । प्रक्रमे प्रस्तावे । 'वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम्' इति हैम्याम् । अखिलैः समस्तैश्चत्वारो निकाया उत्पत्ति गतिसाधम्र्येण सादृश्य येषां ते। 'निकायस्तु सधर्मिणाम्' इति हैम्याम् । भवनपतिठयन्तरज्योतिष्कवैमानिकलक्षणाश्चतुनिकायास्तादृशा अमरा देवास्तैः पुरंदरगिरेमेरोः समीपं शोभा लभ्यते । यथा सुरगिरिः तथा सुरेन्द्रगिरिरपि । यथा सुराचार्यस्तद्वत्पुरंदरगुरुरपि । यथा नैषधे-'शैशवावधि गुरुर्गुरुरस्य' । अस्य शक्रस्य । तथा श्रीपालचरित्रे-'सक्कगुरूचे वसक्के इ' इति । तथा नैषधे-'जाम्बूनदार्थी धरसार्वभौमः'। यथा शक्रनामेद तथा शक्रस्यायमपि शल इति ॥
શ્લોકાઈ
જિનેશ્વર ભગવંતના જન્માભિષેકના મહોત્સવ પ્રસંગે ચાર નિકાયના દેવે જેમ મેરૂપર્વતની ભૂમિને શોભાવે તેમ ચાર સમુદ્ર પર્વતની પૃથ્વી ઉપર રહેલા અર્થાત્ ચારે દિશામાંથી આવેલા મનુષ્યએ શત્રુંજય પર્વતની તળેટીને ભાવી. ૫ ૧૬
धराधिविबुधेरिता किमु सहैव संकेतभा
किमत्र सुकृतैरुत व्रतिपतेरिवाकर्षिता । शताङ्गमुखवाहनानुगतयौवतभ्राजिना
यदेकसमये ततिस्तनुमतामुपेता गिरौ ॥१७॥
गुरौ शत्रुजयाचले तनुमतां प्राणिनां यात्रिकजनानां ततिः श्रेणी यद्यस्मात्कारणात एकसमये एकस्मिन्नेव प्रस्तावे उपेता समकालं समागता । किंभूता । शताङ्गाः स्यन्दना रथा मुखे आदी येषां तादृशानि वाहनानि यानानि तैरनुगतानां युक्तानां यौवतैर्युषतीहि० सौ० ८६