________________
हीरसौभाग्यम्
[सर्ग १६ श्लो० १४-१५
त्रिकेषु जनेषु विमलाचलं शत्रुजयशैल प्रति चलन्सु प्रतिष्ठमानेषु सत्सु । उत्प्रेक्ष्यतेअग्रतः पुरस्तादागमेन आगमने कृत्वा प्रथमतः पूर्वमेव स्वयमात्मना शिवश्रियं मुक्तिलक्ष्मी गृहीतुमनसः आदातुकामा इव । के इव । धनार्थिन इव । परेषु अन्येषु द्रव्यामिलाषिषु विगतो मलः किट्टो रत्नोत्पत्त्या यस्मात्तादृशमचलम् । रोहणादिमित्यर्थः । परदेश वा प्रति व्रजत्सु अत्यौत्सुक्यादतिशायितृष्णाभाजो धनार्थिनः बहुलाभाभिलाषिणः अतिधनलुब्धाः निःप्रत्यूहमाजन्मसुखकारकत्वेन शिवश्रियं कल्याण कृद्रत्नादिभसंपदं गृहीतुकामा अग्रे गच्छन्ति ॥
પ્લેકાર્થ
યાત્રા કરવા માટે ઉત્સુક બનેલા યાત્રિકે બીજા બધા યાત્રિકેથી જહદી જદી ચાલતા આગળ ને આગળ જતા હતા. જેમ ધનલેલુપ્ત પુરુષે ધનપ્રાપ્તિ માટે પરદેશ જતા ધનાથી સાથે ને સાથે આગળ જાય તેમ મેક્ષરૂપી લક્ષમી ગ્રહણ કરવાની ઈચ્છાથી જાણે યાત્રિકો આગળ ચાલતા હતા. જે ૧૪
पुरःप्रचलितैर्जनैर्धननिरुद्धवान्तरः
पुनः प्रणुदितस्तमां द्रुतमुपेत्य पश्चाननैः। अमन्यत तदा हृदा कचन यात्रिकैः स्वं भ्रम
द्धरदृघटितं क्षणं कणमिवातिसंघट्टितः ॥ १५॥
तदा संघप्रस्थानसमये क्वचन कुत्रचित्स्थानके कश्चिद्यात्रिकजनो भ्रमति भ्रमणी कुर्वाणे घरट्रके कणचूर्णीकरणोपवृत्तपाषाणयुगलरूपे घटितं योजितं तदन्तनिक्षिप्तं कणं धान्यमिव क्षणं निमेषमात्रं हृदा स्वमनसा स्वमात्मानममन्यत जानाति स्म । किंभूतो यात्रिकः । अत्य धिकं संघट्टितः बहुजनसंमर्दैन पश्चाशगच्छद्भिः पुरश्चलद्भिश्व जनैरतिसंकीर्णतया निष्पीडितः। अत एव पुनः किंभूतः । पुरोऽये प्रचतिः क्रमाक्रमाभ्यां प्रस्थितैर्जनौंकैर्घनं बहु निबिडं वा नीरन्ध्रमन्तरालरहितं वा निरुद्धमतिसंकीर्णतया कथमप्यग्रे गन्तुमशक्तीकृतं पुरस्तात्प्र. चलल्लोकमध्ये प्रवेष्टुमशक्यं कृतं वर्त्मनो मार्गस्य अन्तरं मध्य यस्य वन्तिरः अपरमार्गों वा यस्य सः। पुनः किंभूतैः । पश्चात्तनैः पृष्ठे समागतैर्जनद्रुतं शीघ्र मुपेत्यागत्य तमामतिशयेन प्रणुदितः अग्रे गमनाय प्रेरितः वाक्शरीरादिभिस्त्वरितीकृतः ॥
લેકાર્થ
આગળ ચાલતા ઘણુ યાત્રિકો વડે માર્ગ રોકાઈ જવાથી અને પાછળ ચાલતા યાત્રિકો દ્વારા આગળ ચાલવા માટે વારંવાર પ્રેરણા કરાતી હોવાથી વચ્ચે રહેલા યાત્રિક પિતાની જાતને ઘંટીમાં રહેલા ધાન્યના કણની જેમ પીસાતી માનતા હતા. ૧૫