________________
सर्ग १६ श्लो० १३-१४]
हीरसौभाग्यम्
६७९
महेन्द्रमिहिराङ्गजाम्बुनिधिधामपौलस्त्यदि
क्पथेषु पृथु पप्रथे प्रथितजन्तुसाईंस्तथा । तिलैर्न जगतीतल क्वचिदलम्भि कीर्णैर्यथावसानमिव मानसैज नमनोरथस्फूर्जितैः ॥ १३ ॥
प्रथितैः सकर्तव्यैः सद्गुणैर्वा जगति विख्यातिमद्भिर्जन्तूनां भविकप्राणिनां साथैः । संघसार्थों त देहिनाम्' इति हैम्याम् । वृन्दैः 'पान्थसाथैः' इति पाठे तु पान्थाः विमलगिरिमार्ग प्रति स्थायुकास्तेषां प्रकरैरिति । महेन्द्रः शक्रः मिहिरः सूर्यः तस्याङ्गजो नन्दनो यमस्तथाम्बुनिधिधामा वरुणस्तथा पौलस्त्यो धनदस्तेषां दिशो हरितः पूर्वा, पश्चिमा, दक्षिणा, उत्तरा, तासां पथेषु मागेषु पृथु विस्तीर्ण विपुलं यथा स्वात्तथा तेन प्रकारेणा. तिबाहुल्येन पप्रथे विस्तृतम् । यथा येन प्रकारेण विकीर्णेविक्षिप्तस्तिलः स्नेहधारिधान्य. विशेषैः क्वचित्कुत्रापि स्थाने जगतीतल भूमण्डल नालम्भि न प्राप्तम् भूमेरुत्सङ्गो न लेभे जनमस्तकेष्वेवातिष्ठत् । विक्षिप्तास्तिलाः क्षितौ नापतन्नित्यर्थः। किमिव । अवसानमिव । यथा मानसैर्मनःसंबन्धिभिर्जनानां मनोरथानामभिलाषाणां स्फूर्जितैविलसितैरवसानं प्रान्ती न प्राप्यते संसारिणां प्राणिनामवसानमेव नास्ति । 'इच्छा हु आगाससमा अनन्तया' इत्युत्तराध्ययनोकतेः ॥
શ્લોકાર્થ ઈન્દ્રની દિશા પૂર્વ, પશ્ચિમ, યમની દક્ષિણ અને કુબેરની ઉત્તર એમ ચારે દિશાઓના માર્ગો શત્રુંજયના યાત્રિકથી વ્યાપ્ત બની ગયા. જેમ અદ્ધરથી નાખેલા તેલ અદ્ધર ને અદ્ધર રહે પરંતુ પૃથ્વી પર દેખાતા નથી તેમ અસંખ્ય યાત્રિકેથી દિગ્માર્ગ દેખાતા ન હતા. અર્થાત્ જેમ મનુષ્યની ઈચ્છાને અંત નથી તેમ યાત્રિકોની સંખ્યાનો અંત ન હતું. ૧૩ છે
चलत्सु विमलाचलं निखिलयात्रिकेष्वोजसा
पुरस्त्वरितमैयरुः क्वचन केचिदुत्कण्ठिताः । गृहीतुमनसः शिवश्रियमिवागमेनाग्रतः स्वयं प्रथमतः परेष्विव धनार्थिनोऽर्थप्रथाम् ॥ १४ ॥
क्कचन कुत्रचित्स्थाने उत्कण्ठिताः श्रीशत्रुजययात्राजिनदर्शनोत्सुकितचेतसः केचन पुरुषा ओजसा बलेन कृत्वा त्वरितं शीघ्र पुरः संघजनाग्रे केषांचिज्जनानामपेक्षया वा 'यरुः आगताः । केषु सत्सु । क्रमादनुक्रमेण श्रेण्यादिपरिपाटचा निखिलेषु सर्वेसु या