________________
४७२
सौभाग्यम्
[ सर्ग १४ श्लो० २२-२४
कुर्यात् अपि पुनरस्मान्मदातिरेकात् राजयक्ष्मणा क्षयरोगेण उदीयते प्रादुर्भूयते । केनेव । तमोभरणेव । यथा तमस्विनीमुखात्प्रदोषात्संध्यासमयादन्धकारेण स्फुयते ॥
શ્લેાકા
હે રાજન, વધતા જતા કામના ઉન્માદથી મહાન શક્તિશાળી મહારથીઓને પણ અલ્પકાળમાં જ નિવીય મનાવી દે છે, અને સધ્યા સમયથી જેમ અંધકાર ફેલાવા થાય છે તેમ શરીરમાં ક્ષયરોગ આદિ ભયંકર રાગાના પ્રવેશ થાય છે. ॥ ૨૨
मनोभुवा मोहयमानमानसो महांसांहसंहतिमात्मनाचरन् ।
लभेत कश्चिनरकेषु कारणामिहैव शूलामिव पारिपन्थिकः ॥ २३ ॥
कश्चित्पापीयान् पुमान्नरकेषु कारणां सप्तस्वपि दुर्गतिषु परमाधार्मिकनिर्मितां क्षेत्रीदूतां महारोगशीतोष्णादिजनितां कासश्वासकठोदरादिकां तीव्रवेदनां लभेत प्राप्नुयात् । क इव । पारिपन्थिक इव । यथा परस्वाद्यपहर्ता तस्करो नरकेषु नारकित्वेन नरको दूतां महतीं पीडां लभते । कामिव । शूलामिव । यथा इह लोके च शूलां मार्यमाणचौराधिरोपणतीक्ष्णतदादिकां महतीं व्यथां प्राप्नोति । जन्तुः किं कुर्वन । मनोभुवा शत्रुभूतेन कामेन मोहयमानं मोहं मूर्छा सदसद्विवेचनचातुरीविकलतां नीयमानं मानसं मनो यस्य तादृशः सन्महांहसां प्रबलपापानां संहति श्रेणीमाचरन् । यदुक्तं नैषधे दमयन्त्याः पुरस्तात्'दधुना नलः पापभीरुरपि त्वत्प्रापकात्रस्यति नैनसोऽपि' इति ॥
શ્લેાકાથ
કામના ઉદ્દેપથી મુંઝાયેલા પાપી જીવ પેાતાના જીવનમાં અનેક પાપાને આચરતા આ લાકમાં પણ શૂળરાગ આદિ રાગે અને ચારીની જેમ અનેક કષ્ટોને વેઠે છે અને પરલેાકમાં નરકની ભયંકર યાતનાઓને ભેગવે છે- !! ૨૩
दुरन्तदुःखाद्विषयात बिभ्यता विमुक्तस्त्रङ्गेन कृपानुषङ्गिना । वशेव सौभाग्यवता स्वकामुकीक्रियेत केनापि मरूहेन्दिरा ॥ २४ ॥
तु पुनः केनापि धार्मिकेण पुंसा मरुदुहेन्दिरा स्वर्गलोकलक्ष्मीः स्वकामुकी स्वस्मिन्नि• च्छा यस्याः स्वाभिलाषिणी । 'इच्छायुक्ता तु कामुका' । विप्रत्यये कामुकीक्रियते । अथ वा खस्यात्मनः कामुकी लालसाकलिता क्रियते । 'वृषस्यन्ती कामुकी स्यात्' इति हैम्याम् । केनेव । सौभाग्यवतेव । यथा 'सग्दमनसन्निरीक्षणसज्जल्पनमिति वदन्ति लावण्यम् । स्पृहणीया रतिसुभगः स्पर्शगुणो भवति सौभाग्यम् ॥' इदं च द्वयमपि स्त्रीपुरुषयोः स्यात् । अत्र तु सुभगत्वभाजा वसुदेवेनेव सकलकामिनीजनकार्मणा वा पुरुषेण वशा वनिता