________________
सर्ग १६ श्लो० ९-११]
हीरसौभाग्यम्
६७७
तत्सहिता इत्यर्थः । तुरङ्गा अश्वास्तथा शिबिका याप्ययानानि 'पालखी' इति प्रसिद्धाः मुखानि येषु तादृशानि प्रकृष्टानि यानानि वाहनानि भजन्ते संश्रयन्ते इति ।।
-
अर्थ
આચાર્યદેવના, નગરીમાં પ્રવેશ મહત્સવ સમયે હાથી, ઘોડા, રથ અને શિબિકાઓ આદિ વાહનોનો આશ્રય કરી રહેલા માનવમહેરામણ સાથે દેશદેશના સંઘપતિએ વિજયી રાજાની જેમ વિમલાચલ તરફ પ્રયાણ કરતા હતા. ૯
अगाधभववारिधेरभिलषद्भिरेतुं बाहिः
समुद्धरणधुर्यतां प्रदधदन्तरीपं किमु । व्रजद्रिरिह यात्राकैः प्रति सहस्रपात्राचलं
तदा विदधिरेऽखिला अपि निजावशेषा दिशः ॥१०॥
तदा हीरविजयसूरियात्रासमये इह जगति सहस्रपत्राचलं शत्रुजयशैलोश्चयं प्रति व्रजद्भिः प्रतिष्ठमानात्रिकैर्यात्राकारकैलॊकैरखिलाः समस्ता अपि दिशः हरितः निज आत्मा एव अवशेषोऽवशिष्टो यासां तादृश्यो विदधिरे विहिताः। दिशः केवलं स्वयमेव स्थिताः, जनास्तु सर्वेऽपि प्रस्थिता इत्यर्थः। यात्रिकैः किं कुर्वद्भिः । अगाधोऽलब्धमध्यपूर्वपरपारो यो भवः संसारः स एव वारिधिः समुद्रस्तस्मादबहिः पारे मोक्षलक्षणे ब्राह्मप्रदेशे एतुमागन्तुम भिलषभिर्वाञ्छद्भिः । अत एवोत्प्रेक्ष्यते-समुद्धरणे भवसमुद्रमध्ये मज्जतां जन्तुनां सम्यगुद्धारकरणे धुर्यतां प्रकृष्टधौरेयतां प्रदधत् प्रकर्षेण धारयत् । अत एषान्तरीपं किमु अन्तर्जले तटमिव ॥
શ્લેકાર્થ હીરવિજ્યસૂરીજીની યાત્રાના સમયે, સંસાર રૂપ અગાધ સમુદ્રમાંથી પાર પામવાને ઈચ્છતા વિમલાચલના યાત્રિકે વડે સમસ્ત દિશાએ દિશામાત્ર બની ગઈ. ખરેખર, શત્રુંજય પર્વત સંસારરૂપી સમુદ્રમાં ડૂબતા જીવોનો ઉદ્ધાર કરવા માટે અંતદ્વીપ સમાન छ. ॥१०॥
महोदयवधिायिना विमलभूभृताहूतव
त्स कोऽप्यजनि नो जनोऽगमि न येन यात्राकृते। न काचिदचलाभवत्पथि च या न तद्यात्रिकै__ रनीयत पवित्रतां त्रिपथगाप्रवाहैरिव ॥ ११ ॥