________________
६७६
होरसौभाग्यम्
[सर्ग १६ श्लो० ८-९
नृशंसनिकषात्मजवजनिवासतो बिभ्यती
पयःप्रकटसंकटाजलधिजाच्च निवेदभाक । अपास्य पदमात्मनः किमियमत्र लागता पुरी पुरजनोत्सवैरलमयारि सूरीन्दुना ॥ ८ ॥
सूरीन्दुना हीरविजयसूरिचन्द्रेण पुरजनानां नगरलोकानामुत्सर्वमहामहर्जायमानः सद्भिः पुरी पादलिप्तनाम्नी नगरी अलमकारि भूष्यते स्म । उत्प्रेक्ष्यते-अत्र शत्रुजय समीपे तलहट्टिकाप्रदेशे आगता समागता लङ्का दशकंधरनगरीव । किं कृत्वा । आत्मनः खस्या पदं जलधिमध्यगतं स्थानमपास्य त्यक्त्वा । किंभूता । नृशंसानां निर्दयानां नि. कषात्मजानां राक्षसानाम् । 'कीनाशरक्षानिकषात्मजाश्च' इति हैम्याम् । व्रजानां कुलक लापानां निवासतोऽनिशं स्वस्यां निवसनं ततो बिभ्यती भीति प्राप्नुवती। च पुनः किंभूता। निवेदभाकु खेदोपगता । कस्मात् । जलधिजात्समुद्रोत्पन्नात् । परिखास्थाने परितः पयोधिमध्ये लङ्का तादृग्जलमध्यस्थितिलक्षणात्पयसां पानीयानां प्रकटादुल्बणात्संकटात्क्लेशात् । 'स्थानं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । संजीविनी यस्य मुखे च विद्या स रावणोदैववशाद्विनष्ठः ॥' इत्युक्तेः ॥ इति पादलिप्तपुरम् ।।
શ્લેકાર્થ
શ્રી હીરવિજયસૂરિજીએ નગરજનો દ્વારા કરાયેલા મહત્સવ પૂર્વક પાદલિપ્તપુરીને અલંકૃત કરી. ક્રુર રાક્ષસને પિતાનામાં વાસ હેવાથી ભય પામેલી અને સમુદ્રમાંથી ઉત્પન્ન થયેલી હોવાથી જલસંકટથી નિર્વેદ પામેલી લંકાપુરી, પિતાના સ્થાનનો ત્યાગ કરીને જાણે અહીં પાદલિપ્તનગરી રૂપે આવીને રહી ન હોય, તેવી શુભે છે. ૮
अशेषविषयान्तराधतिकरेऽत्र संघाधिपाः
समं मनुजराजिभिजेयिमहीमहेन्द्रा इव । भगीरथगिरीश्वरं प्रति शताङ्गमातङ्गयुक्तुरङ्गशिविकामुखप्रमुखयानभाजोऽव्रजन् ॥ ९ ॥
अत्र व्यतिकरे पादलिप्तपुरे सूरिसमागमनप्रस्तावे अशेषविषयान्तरान्समस्तजनपद: मध्यात्संघाधिपाः संघपतयः मनुजानां मनुष्याणां राजिमिः श्रणिभिः समं भगीरथगिरीश्वरं विमलाचलेन्द्र प्रति अव्रजन प्रतिष्ठन्ते स्म । 'बाहुबलिमेरुर्देवो भगीरथः सहखपत्रशतपत्रः' इति शत्रुजंयकल्पे । के इव । जयिनो विजयकरणशीला महीमहेन्द्रा महामण्डलीकमहीपाला इव । तेऽपि मानवमण्डलीभिः प्रतिष्ठन्ते । अर्थात् दिग्विजयाय । किंभूताः संघाधिपाः नृपाश्च । शताङ्गा रथा मातङ्गा हस्तिनः तैर्युञ्जन्ति युक्ता भवन्ति ।