________________
सर्ग १६ श्लो० ६-७]
हीरसौभाग्यम्
६७५
असौ पादलिप्ताभिधाना नगरी अन्तिके शत्रुजयांद्रिसमीपे समेत्यागत्य स्थितवती उवास स्थितिं कृतवती । उत्प्रेक्ष्यते-निजनिवासिनां स्वस्यां नितरां सातेन वसनाशीलानाम् । 'निजनिषेविनाम्' इति पाठे तु निजमात्मान नितरामतिशयेन सेवन्ते इत्येवंशीलानामसुमतां प्राणिनां समूहान् गणान् अमुना प्रत्यक्षलक्ष्येण विमलशैलरुपो वो मूलः अध्वरोऽध्वा मार्गस्तेन कृत्यः महोदयो मोक्षः अथ वा महानतिशायी उदयः मानससमीहित सर्वसंपत्प्राप्तिर्यसत् तादृशं महापुरमनन्तसुचविधायकत्वात्सर्वनगराभ्यधिकपतन किमु निनीपुर्नतुभिच्भेरिव । असुभतां किं कुवताम् । भवः स सारः स एवाहितः शत्रुर्न विद्यते हितं शुभोदो यस्मात्सोऽहितः केवलानिष्टतरायतिफलप्रदस्तस्य भिदा व्यापादन तया कृत्वा उदयप्रकटीभवत्परममुकृष्ट सात शर्म आशंसतां काङ्गताम् ॥
શ્લેકાર્થ શત્રુંજયની પાસે રહેલી પાદલિપ્તપુરી, જાણે સંસારરૂપી શત્રુનો નાશ કરવાથી પ્રાપ્ત થતાં પરમસુખની ઈચ્છાવાળા સ્વનગરનિવાસી જીવેના સમૂહને વિમલગિરીરૂપ શ્રેષમાર્ગ દ્વારા મોક્ષપુરી તરફ લઈ જવા ઈચ્છતી ન હોય! તેવી શોભે છે. . ૬
विजत्य निजवैभवैः सुरनरोरगस्वामिनां __स्फुरत्पुरपरम्परा जगति पादलिप्तं वर परश्शतजिनेश्वराश्रयशिखाङ्गणालिङ्गिनीद्विषद्विजयोधिकां व्यधृत वैजयन्तीरिव ॥७॥
पादलिप्त पुरं नाम नगरं द्विषतां श्रिया कृत्वा स्वप्रतिमल्लानां विजयस्य पराभवस्य बोधिकां कथयित्रीम् । 'निजत्रिनेत्रावतरत्वबोधिकाम्' इति नैषधे । उत्प्रेक्ष्यते-वैजयन्तीमहापताका व्यधृत धारयति स्मेव । किंभूता वैजयन्तीः । परश्शताः शतसहस्रसं ख्याकाः ये जिनेश्वराणां तीर्थंकराणामाश्रया गेहाः । प्रासादा इत्यर्थः । तेषां शिखाङ्ग णानि शृङ्गाजिराणि आलिङ्गन्त्याश्लिष्यन्तीत्येवंशीलाः । किं कृत्वा व्यधृत । जगति त्रैलोक्येऽपि सुरा देवाः नरा मानवा उरगा असुरनागास्तेषां स्वामिनां नायकानां सुरेन्द्रनरेन्द्रनागेन्द्राणां स्फुरतां लक्ष्म्या दीप्यमानानां पुराणां नगराणां परम्पराः श्रेणीनिजवैभवैः स्वकीयसमृद्धिशोभातिशयैर्विजित्य परिभूय ||
શ્લોકાથ જગતમાં શ્રેષ્ઠ એવી પાદલિપ્તપુરીના હજારે જિનપ્રસાદેનાં શિખરો ઉપર રહેલી ધ્વજાઓ જાણે સુર અસુર અને માનવના સ્વામીઓની અનેક નગરીએ જીતીને શત્રુઓ. પર વિજય મેળવ્યાને સંદેશ આપનારી વૈજયન્તી ન હોય તેવી ધ્વજાઓ શેભે છે. જે ૭૫