SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सर्ग १५-१६ श्लो० ८२-१] हीरसौभाग्यम् ६७१ आनन्दतः सकलतीर्थाधिराजस्मरणवर्णनाभृतनूतप्रमोदादेवविमलेन निर्मिते विरचिते हीरस्य हीरविजयसूरेश्वरितं यत्पावारादिना सिद्धिगमनादिकं चरित्रं यत्र ताशे वृत्ते हीरसौभाग्यनाम्नि महाकाव्ये असौ पूक्तिलक्षणः पञ्चदशः पञ्चदशानां संख्यापूरणः अत्र हीरचरित्रे सोऽधिकारविशेषः बभूवान संजातः॥ इति पण्डितसीहविमलगणिशिष्यपण्डितदेव विमलगणिविरचितायां स्वोपज्ञहीरसौभाग्यमहाकाव्यवृत्तौ गुर्जरदेशात्प्रस्थानशत्रुजयसमीपागमनतद्दर्शनतर्णनो नाम पश्चदशः सर्गः। શ્લોકાઈ વણિકકુલમાં ઈન્દ્રસમાન “શિવ' નામના શ્રેણી અને સૌભાગ્યદેવીનાં જન્મજાત સત્ર દેવવિમલગણી, કે જેઓ નિરંતર સરસ્વતીદેવીની ઉપાસના કરવામાં તત્પર હતા, અને મુનીઓમાં સિંહસમાન સિંહવિમલગણીના પ્રથમ શિષ્યરૂપે પ્રસિદ્ધ હતા; તે દેવવિમલગણીએ જેમાં જગદગુરુ શ્રીહીરવિજયસૂરિનું સવિસ્તાર જીવનચરિત્ર આવે છે, એવા “હીરસૌભાગ્ય’ નામના મહાકાવ્યની પજ્ઞટીકા સહિત રચના કરી, તે મહાકાવ્યનો ગુર્જરદેશના પ્રયાણથી શત્રુંજ્યદર્શન-પર્યતને આ પંદરમો સર્ગ સમાપ્ત થયે છે ૮૨ षोडशः सर्गः। समीपमुपजग्मिवानथ गिरीशितुः श्रीगुरुः प्रभावमतिशायिनं त्रिभुवने समाकर्णयन् । सुरद्रुमसमुल्लसत्कनककान्तकायद्यति लधूकृततनुः समीक्षितुमिवोत्सुकः स्वगिरिः॥ १॥ अथ दर्शनसम्यगवलोकनानन्तरं श्रीगुरुः हीरविजयसरिगिरी शितुः शत्रुजयशैलशक्रस्य समीपं पार्श्वमुपजग्मिवान समाजगाम । सप्तम्यर्थे द्वितीया । उत्प्रेक्ष्यते-समीक्षितुं सम्य. क्षितुं सम्यक्तया विलोकयितुमुत्सुक उत्कण्ठितः स्वगिरिमरुरिव समीपे समेतः । किं कुर्वन् । त्रिभुवने त्रैलोक्येऽपि अतिशायिनमत्यभ्यधिकं प्रभावमर्थाद्विमलाद्रेर्माहात्म्यं समाकर्णयन् सम्यगेकाग्रमनसा शृण्वन् । महिमानं श्रुत्वा तं द्रष्टुमागत इत्यर्थः। किंभूतः श्रीगुरुः स्वर्गिरिश्च । सुरद्रुमाः पञ्चापि कल्पवृक्षाः तद्दातृतया निरुपमरूपवत्तया च तैश्च समुल्ल. सन्दीप्यमानः । तथा कनकं सुवर्ण तद्वद्वा तेन च कान्ता मनोज्ञा कायस्य शरीरस्य द्युतिर्यस्य । पश्चात्कर्मधारयः। किंभूतः स्वर्गिरिः लघुकृता स्वल्पा विहिता तमूः शरीरं येनः॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy