________________
सर्ग १५ श्लो० ७९-८०]
हीरसौभाग्यम्
शिलातलोद्यानकुण्डतटभूमिपीठेषु स्वस्मिन्नात्मनि विषये विद्या गोचरीपज्ञप्तिप्रमुखा विद्याधिष्ठायिका देवता मन्त्रान् साधयतामाराघान कुर्वतामम्बरचारिणां विद्याधराणां सिद्धीः कार्यनिष्पत्तीविधत्ते कुरुते । विद्यादेवतास्तत्प्रत्यक्षीकरोतीत्यर्थः । किभिव । स्वपुण्यमिव । यथा निजप्राचीनसुकृतं सिद्धीदत्ते । च पुनर्यस्मिन्विमलाचले क्वापि प्रदेशे अहरहः प्रतिवासरम् । नित्यमित्यर्थः । परं परममुत्कृष्टं ज्योतिब्रह्म परमेष्ठिलक्षणं ध्यायतां ध्यानगोचरीकुर्वतां योगिनां मनोवाकाययोगवतामष्टाङ्गयोगभाजां वा योगीन्द्राणां हृत्पदमे हृदयकमले परमात्मना ब्रह्मस्वरूपेण प्रकटितं प्रादुर्भूतम् । योगिनो हि ध्यानं कुर्वाणा दयकमलणिकायां परमात्मस्वरूपमालोक्य ध्यानाद्विरमन्तीति श्रुतिः । 'योगात्स चान्तः परमात्मसंज्ञ दृष्ट्वा परं ज्योतिरुपारराम' इति कुमारसंभवे । केनेव । पूष्णेव । यथा पूर्वा चले सहस्ररश्मिना प्रकटीभूयते ॥
પ્લેકા
दा
સિદ્ધાચલ પિતાના સ્થાને સ્થાને એકાગ્રચિત્તે “પ્રજ્ઞપ્તિ આદિ વિદ્યાઓને સાધતા વિદ્યાધરોને, પિતાના પૂર્વીશીણ પૂન્યની જેમ વિઘાસિદ્ધિ કરી આપે છે, કોઈ સ્થાનમાં નિરંતર પરમાત્મસ્વરૂપનું ધ્યાન કરતા યોગીપુરુષનાં હૃદયકમલમાં જતિર્મય પરમાત્મસ્વરૂપને પ્રગટ કરતો, પૂર્વાચલ ઉપર જેમ સૂર્ય પ્રગટ થાય તેમ યોગીપુરૂષના હૃદયમાં પરમાત્મસ્વરૂપ પ્રગટ કરતો હતો. એ ૭૯
तावल्लीलाविलासं कलयति मलयो विन्ध्यशैलोऽयि ताव
धत्ते मत्तेभगवं तुहिनधरणिभृत्तावदेवाभिरामः । ताबन्मेरुमहत्त्वं वहति हरगिरिाहते तावदाभां
यावत्तीर्थाधिराजो न नयनपुटैः पीयते पर्वतेन्द्रः ।। ८० ॥ मलयो दक्षिणाचलः गोशीर्षचन्दनोत्पत्तिस्थानं मलयगिरिस्तावत्प्रमाणमस्येति समयप्रमाणं लीलया स्वरसेन स्थानवैशिष्टयेन वा विलास विभ्रमं कलयति बिभर्ति । अपि पुनविन्ध्यशैलो जलबालकाचलः मत्तेमानां मदोदयोद्धतानां मतङ्गजेन्द्राणां गर्वमहंकार धत धारयति । विन्ध्याद्रौ हि भद्रमन्दमगमिश्रजातयो गजा उत्पद्यन्ते तदभिमानः । पुनस्तुहिनधरणिभृत् हिमाचलस्तावदेवाभिरामः कस्तूरिकामृगौषधीप्रस्थचमरगोप्रमुखमनोज्ञः । तथा मेरुः सुपर्वपर्वतः तावन्महत्त्व महिमानं गरिमाणं वहति । पुनर्हरगिरिः कैलाशस्तावन्त कालमाभां शोभां गाहते आलम्बते यावत् यावता समयेन स त्रिभुवनप्रसिद्धः पर्वतेन्द्रः शत्रुजयशलाखण्डलः नयनपुटैः नेत्रपत्रामत्रैर्न पीयते सादर स्वदृशा नावलोक्यते । किंभूतः । तीर्थानां पुण्यस्थानानां मोक्षगमनक्षेत्राणां वा अधिराजश्चक्रवर्ती तीर्थाधिराजः पर्वतेन्द्रः । 'श्रियः पदम्' इति शत्रुजयमाहात्म्योक्ताभिधानत्वात् ।।