________________
सर्ग १५ श्लो० ७५-७६]
हीरसौभाग्यम्
६६७
निर्गत्वरप्रसृमरद्युतिवारिपूर
पूर्णान्तरस्फटिककल्पितकूटकाटीम् । जज्ञे किमु प्रतितटं तटिनी विपाशा प्रेक्ष्येत्यबुध्यत विमुग्धजनेन यस्मिन् ॥ ७५ ॥
यस्मिन् शत्रुजये विमुग्धजनेनाज्ञानलोकेन इत्यमुता प्रकारेणाबुध्यत ज्ञातम् । विचारितमित्यर्थः। किं कृत्वा । निर्गत्वरा निःसरणशीलाः प्रसृमरा धुतमः किरणास्ता एव वारिणां नीराणां पूराः पलवाः प्रवाहास्तैः पूर्ण संपूरितं भृतमन्तरं मध्य यस्यास्तादृशीं स्फटिकैः श्वेतोपल: कल्पितां रचितां कूटानां शिखराणां कोटी प्रेक्ष्य दृष्ट्वा । इति किम् । प्रतितट शिखर शिखर प्रति विपाशा तटिनी अनुसर्पिणी नही किमु जज्ञे सजाता। 'उत्सर्पिणी न खलु तत्र तरङ्गिणी या त्वन्नेत्रयोरहह तत्र विपाशि जाता । नीराजनाय नवनीरजराजिरास्तामत्राऊजसानुरजराजनि राजमाने ।' इति नैषधे । तत्र द्वीपे विपाट् नदी न प्रसरणशीला आविर्भवति किल तत्र जातत्वात् अन्यत्र द्वीपेषु यथा सरित्प्रसरन्ती दृश्यते तथा तत्र विपाट् नेति पुराणप्रसिद्धिः । 'तत्र तस्यां विपाशि जाता नवपद्मपङ्किः त्वन्ने त्रयोर्नीराजनायास्ताम् । अहहेत्याश्चये। अत्रास्मिन राजनि साकल्येनानुरज अनुरक्ता भव। 'अजेश्च' इत्यनुनासिकलोपः । 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । इति नेषधवृत्तौ ॥
શ્લેકાર્થ
શત્રુંજ્ય પર્વત ઉપર, નિર્ગમનશીલ અને પ્રસરતી કાંતિરૂપી જલ વડે જેને મધ્ય ભાગ પરિપૂર્ણ છે તેવાં સ્ફટિક રત્નનાં કોડે શિખરો જોઈને મુગ્ધ પુરુષે આ પ્રમાણે વિચાર્યું! “શું દરેક શિખર ઉપર નદીઓ રહેલી છે! ” ! ૭૫ છે
गुहागृहशयानानां खगसारङ्गचक्षुषाम् । राजी जागरयन्तीव स्तनितैः स्तनयिनवः ॥ ७६ ।।
यत्र पुण्डरीकपर्वते स्तनयित्नवो वारिवाहाः स्तनितैनिजगर्जारवैः । 'जलदस्य तु । स्तनितं गर्जित गर्जिः स्वनित रसितानि च ॥ इति हैम्याम् । मेघगर्जाभिधानानि कृत्वा । उत्प्रेक्ष्यते-गुहाः शचुंजयकंदरा एव गृहा रमणीयत्वान्मणीगणसोद्योतत्वाचाल यतुल्यास्तेषु शयनानां बहुदेवगृहगमनसंजातपरिश्रान्तिवशात्सुखसुप्तानां खगसारङ्गचक्षुषां विद्याधरहरिणीनयनानां खे नभसि गच्छन्तीति खगाः सुरास्तेषामपि मृगेक्षणानाम् । देवीनामित्यर्थः । राजी श्रेणी जागरयन्तीव पुनर्देववन्दनपूजनार्थ प्रबोधयन्तीव ॥