________________
हीरसौभाग्यम्
[सर्ग १५ श्लों० ७२-७४
કિરણના સંપર્કથી અત્યંત અવી રહેલા પાણીનાં પૂરથી સૂર્યના પ્રચંડ તાપ વડે સતત બનેલા પિતાને અમૃત વડે જાણે સ્નાન કરાવતા ન હોય ! છે ૭૨ છે
लीलायमानानिजमौलिदेशे केशानिवोंच्चैःप्रसरत्पयोदान् ।
धूपायतीवाप्तनिकेतधूपधूमैर्विलासीव स सिद्धशैलः ॥ ७३ ॥ स त्रिजगद्विख्यातः सिद्धशैलः शत्रुजयाद्रिः निजस्यात्मनो मौलिदेशे शिरःस्थानीयशिखराग्रभागे लीलायमानान् लीलयाचरतो विभ्रम भजन्तः क्रीडया आचरतो वा केशानिव कुन्तलानिव मस्तकोपरि शोभां बिभ्रतः उच्चैरुव प्रसरतो विस्तारं प्राप्नुवतः पयोदान जलधरान् । उत्प्रेक्ष्यते-आप्तानामहतां निकेतेषु गृहेषु प्रासादेष्वित्यर्थः । उत्क्षिप्यमानागुरुवातधूपानां धूमैः कृत्वा धूपायतीव । सुगन्धीकरोतीव । क इव । विलासीव । यथा स्यादिभोगासक्तत्वेन विलासवान् पुमान् कृष्णागुरुप्रमुखधूपधूमैनिजकेशान्सुरभयति ॥
શ્લોકાથ
જેમ કઈ વિલાસી પુરુષ કૃષ્ણગુરુ આદિ ધૂપ વડે પિતાના કેશ સુવાસિત કરે તેમ શત્રુંજય પર્વત પિતાના મસ્તકે (શિખરના અગ્ર ભાગે) કેશની જેમ રહેલા મેઘ, જિન પ્રસાદમાં ઉવેખેલા ધૂપના ધૂમાડાઓથી જાણે સુવાસિત કરતો ન હોય! ૭૩ .
अर्कीशुसंपर्किपतङ्गकान्ताभितोविनिष्पातिहुताशहेतिभिः । मणीविहाराः प्रणयन्ति यस्मिन्पश्चाग्निकष्टं क्यचनापि योगिवत् ॥ ७४ ॥
यस्मिन्धिमलाचले क्वचनापि कुत्रचिदपि प्रदेशे मणीनामन्तःसंदृब्धार्ककान्तमाणिक्यानां विहाराः प्रासादाः योगिवत्तापसा इव पञ्चाग्निकष्ट चतसृषु दिक्षु चत्वारः प्रज्वालितकाष्ठाग्नयः पञ्चमो भास्वांश्चेति पञ्चाग्निसाधन कृच्छं प्रणयन्ति कुर्वते इति गभितोत्प्रेक्षा । काभिः कृत्वा । अर्कस्य सूर्यस्यांशुभिः किरणैः सम सपर्कः संयोगोऽस्त्येषां तादृशा ये भास्करमणयस्तेभ्यः अभितश्चतुर्दिक्षु विशेषेण निष्पतनशीलानां हुताशानामनुच्छिष्टवतीनां हेतिभिर्ध्वालाभिः॥
પ્લેકાર્થ
સૂર્યનાં કિરણોના સંપર્કથી સૂર્યકાન્ત મણિઓમાંથી નીકળતી અગ્નિની જવાલાઓ વડે શત્રુંજયના મણિમય પ્રસાદે ગીની જેમ જાણે પંચાગ્નિ તપ કરતા હતા.
॥ ७४ ॥