________________
सर्ग १५ श्लो० ७१-७२ ]
हीरसौभाग्यम्
त्प्रेषयति स्म । कथम् । सत्रा सार्धम् । कैः । तरङ्गैः गगनाङ्गणालिङ्गनलोलकल्लोलैः । कैरिव । अथ वा उत्प्रेक्ष्यते-अङ्गरक्षकमटैः शरीरयत्नविधायकवीरैरिव । क इव प्रास्थापयत् । पितेव । यथा जनकः स्वस्वतातः सुताः आत्मपुत्रीः पतिं पाणिगृहीतारं प्रति प्रस्थापयति । किंभूताः सिन्धूः सुताश्च । त्वरमाणः शीघ्रतरो भावः । भूयते उत्पद्यते कर्मवशतया भूयो भूयः संसारः अनेनेति भाव आत्मा चित्ताभिप्रायश्च यासाम् । ग्रायो वर्षाकाले नद्यस्त्वरितं चलन्ति । स्त्रियोऽपि पतिमिलनार्थ त्वरिता अत्यत्सुकाश्च भवन्ति । पुनः किंभूताः प्रोत्कण्ठिताः प्रकर्षेण उत्कृष्टः कण्ठः उपकण्ठः संनिधान संजात आसाम उभौ कण्ठौ पानी यपूर्णौ संजातावासामिति प्रोत्कण्ठिताः कण्ठादूर्ध्वमूढा वा। ‘कण्ठो ध्वनौ सनिधाने ग्रीवायां मदनमे' इत्यनेकार्थः। तथा प्रकर्षेणोत्कण्ठा औत्सुक्यं भर्तृसंगमे जातमासाम् । पुनः किं कुर्वतीः। सरसीजानि विविधकमलानि तैः कृत्वा भूषा शोभा यासाम् । पक्षे पद्मानामुपलक्षणात्कुसुमानां भूषा हारादिमाभरणानि यासाम् । अथ वा कमलकुसुमानि हाररूपाणि तथा भूषा विविधाभरणानि यासाम । 'भावोऽभिप्रायवस्तुनाः । स्वभावजन्मसत्तात्मक्रियोलीलाविभूतिषु ॥ चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे । शब्दवृत्तिहेतौ च' इत्यनेकार्थः॥
શ્લોકાથ જલદીથી જવા માટે ઉત્સુક બનેલી અને કમલેનાં આભૂષણે ધારણ કરતી પિતાની ચૌદ મહાનદીઓને, પિતાની જેમ શત્રુંજય પર્વત તરંગરૂપી અંગરક્ષકે સાથે તેઓના પતિ સમુદ્ર તરફ પ્રયાણ કરાવતું હતું. ૭૧ છે
शशाङ्ककरसंगमक्षरदमन्दपाथःप्लवैः
क्वचिद्विधुमणीमयः कलयति स्म सालः श्रियम् । प्रचण्डतरचण्डरुकिरणतापसंतापितः
प्रतिक्षपमि वामृतैः प्रविदधन्निजेनाप्लबम् ॥७२॥ क्वचित्कुत्राषि शत्रजये विधुमणीमयश्चन्द्रकान्तरत्नघटितः सालः प्राकारः श्रियं शोभां कलयति धत्ते । कैः। शशाङ्कस्य चन्द्रस्य कराणां किरणानां संगमेन संपण क्षरतां नि:सरताममन्दानां भूयसां पाथसां पानीयानां प्लवैः पूरैः कृत्वा । उत्प्रेक्ष्यते-- प्रचण्डतरेण अतिशयेन तीव्रण चण्डरुचः सूर्यस्य किरणानां ज्योतिषां तापेनाष्मणा संता पितो व्याकुलीकृतः सन् प्रतिक्षिप रात्री रात्री प्रति अमृतीरैः कृत्वा निजेनात्मना आप्लव स्नान' प्रविदधत् कुर्वन्निव ॥
શ્લેકાર્થ શત્રુંજય પર્વત ઉપર ચન્દ્રકાન્ત મણિથી નિર્માણ કરાયેલ પ્રાકાર શેભે છે. ચન્દ્ર हि सौ० ८४