SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्म १५ श्लो० ६८-६९] हीरसौभाग्यम् यस्मिन शत्रुजये विमलाचलोपरि वर्तमानः पूषा सूर्यः खद्योतो ज्योतिरिक्षणः 'खजऊ' इति लोकप्रसिद्धः । तस्य पोतो बालकः खद्योत एव शिशुः तहत्किचिकिमपि स्वल्पमात्रां शोभामधत्त दधाति स्म । किंभूतः । पूषा मुषिता आच्छिध गृहीता उस्राणां किरणानां सहस्र दशशती तस्य लक्ष्मी: श्रीर्यस्य । कैः । अनन्याभिरसाधारणाभिः मणीनां नानाविधरत्नानां धोरणीभिः श्रेणीभिः क्लुप्तानि घटितानि तथा तुङ्गान्यभ्रंकषाणि श्रङ्गाणि शिखराणि तेषामणरजिरैः। सदभृमीभिरित्यर्थः। किंभूतः। दलितो व्यापादितः संतमसानामन्धकाराणां प्रचार प्रसारो यः॥ શ્લોકાર્થ વિમલાચલ પર્વત ઉપર જેથી અંધકાર સમૂહ નાશ કરાવે છે તે અમૂલ્ય રનની પંક્તિ વડે નિર્માણ કરાયેલા ગગનચુંબી શિખરનાં આંગણાએ જેનાં હજાર કિરણોની લક્ષ્મીનું હરણ કર્યું છે તે સૂર્ય બાલખતની જેમ કંઈક જ પ્રકાશ ધારણ કરનાર બન્યા. ૫ ૬૮ अहोरात्रस्थास्नूदयदमितभास्वद्भमकरी मणीशृङ्गश्रेणी हततमसमभ्राध्वपथिकीम् । विलोक्यैतत्पद्माकरकमलिनीराजिरनिशं गलभिद्रामुद्रां कलयति समुद्बोधकमलाम् ॥ ६९॥ एतस्य शत्रुजयाद्रेः पद्माकराणां कमलमण्डलशालिसरसां कमलिनीनां राजीविनीनां राजिरनिशं निरन्तरं नक्तंदिनमपि समुद्बोधस्य सम्यग्विकाशस्य कमलां लक्ष्मी कलयति धत्ते । किंभूतां कमलाम् । गलन्ती निर्यान्ती निद्रासंकोचलक्षणा तन्द्रा तस्या मुद्रा मुद्रणं स्वापावस्था यस्याः सा ताम् । किं कृत्वा । मणीनामाभंकरप्रभंकरादीनां माणिक्यानाम् । देदीप्यमानमणिमयानामित्यर्थः । शङाणां शिखराणां श्रेणी धोरणी विलोक्य दृष्टा । किंभृताम् । अहोरात्रं दिवसे निशायां च निरवधिसमय यावन्नित्य स्थास्मृनां वसनशीलानां तथा उदयतामभ्युद्गमं भजतां तथा अमितानां प्रमाणरहितानां संख्यातीतानां भास्वतां भास्कराणां भ्रमकरी भ्रान्ति विधायिकाम् । पुनः किंभूताम् । हतानि ध्वस्तानि गले गृहीत्वा निष्काशितानि तमांसि ध्वान्तानि यया ताम् । पुनः किंभूताम् । अभ्राणां मेघानामध्वना मार्गस्य गगनपद्धतेर्वा पथिकी पान्थीम् । अभ्रंकषामित्यर्थः । 'अभ्र व्योमपयोदयोः' इत्यनेकार्थः ।। શ્લોકાઈ રાત ને દિવસે ઉદય પામતી સૂર્યની બ્રાનિત કરાવનારી અને અંધકારને નાશ કરનારી ગગનનંબી રત્નમય શિખરની શ્રેણી જોઈને, શત્રુંજયના સરેવરમાં રહેલી
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy