________________
-
-
६६०
हीरसौभाग्यम्
[सर्ग १५ श्लो० ६३-६४
चपलशफरनेत्रा बन्धुरावर्तनाभी
मधुपपटलकैश्या मानसावासहासाः। कनककमलगौर्यों वीचिमालावलीकाः
स्त्रिय इव रसभाजो भूभृतापा ध्रियन्ते ।। ६३ ॥ भूभृता शत्रुजयाद्रिणा स्त्रियो वध्व इव आपो जलानि ध्रियन्ते । किंभूता आपः स्त्रियश्च । चपलाश्रश्चलाः शफरा मत्स्या एव तद्वद्वा नेत्राणि नयनानि यासाम् । तथा बन्धुरो मनोज्ञ आवर्ता दक्षिणावर्ती भ्रमिविशेषः पयसां भ्रमो भ्रमणं यासां तादृश्यो नाभ्यो मध्यं तुन्द. कूपिकाश्च यासां तथा मधुपानां भ्रमराणां पटलानि मण्डलानि एव तबद्वा कैश्यं केशानां समूहो यासाम् । पश्चात्कर्मधारयः। पुनः किंभूताः। मानसावासा हंसास्त एव तद्वद्वा विशदा हासा यासाम् । पुनः किंभूताः । कनकस्य स्वर्णस्य कमलानि तैस्तद्वद्वा गौर्यः गौराङ्गयः । पुनः किंभूताः। वीचीनां कल्लोलानां माला श्रेणी सेव तद्वद्वा वली उदरे मांससंकोचलक्षणा यासाम् । पुनः किंभूताः। रसं जलं श्रृङ्गारादिकं च भजन्ते इति रसभाजः।।
કાથ
સ્ત્રીઓની જેમ શત્રુંજય પર્વતે જલવહન કર્યું. ચપલ મસ્યરૂપ નેત્રોવાળી, મનહર જલના આવર્તરૂપ નાભિવાળી, ભ્રમરના સમૂહરૂપ, કેશપાશવાળી, રાજહંસ રૂપ હાસ્યવાળી, સુવર્ણના કમલરૂપ ગૌર અંગવાળી, ઉદર ઉપર કોલેની શ્રેણીરૂપ દ્વિવલીવાળી, અને જલરૂપ શંગાર આદિ રસવાળી, સ્ત્રીઓની જેમ શત્રુંજય પર્વત જલને धारण ४२ छ. ॥ ६॥
क्वचन जिनगृहान्तर्दह्यमानागुरुभ्यः प्रसरदमरमार्गप्रस्फुरद्वायुवाहम् ।। सजलजलदबुध्द्या वीक्ष्य बप्पीहबालाः कृतपटुचटुबाचो यत्र धावन्ति मुग्धाः
॥६४ ॥
यत्र शत्रुजये क्वचन कुत्रचन प्रदेशेषु मुग्धा अज्ञाना बप्पीहानां चातकानां बालाः शिशवः अङ्गना वा सजलानां पानीयपूर्णानां जलदानां मेघानां बुध्या धिया भ्रान्त्या वा धावन्ति संमुखं पार्श्व वा यान्ति । किंभूताः । कृता विहिताः पटवः प्रवणाचटवः प्रियप्राया वाचा वाण्या यैर्याभिर्वा । किं कृत्वा । जिनगृहाणां जैनप्रासादानामन्तर्मध्ये दह्यमाना भगवत्पुरो धूपोत्क्षेपणार्थ धूपाधानाग्नौ प्रज्वाल्यमानाः। उत्क्षिप्यमाना इत्यर्थः । ये अगुरवः काकतुण्डास्तेभ्यः प्रसरन्तं विस्तरन्तं तथा अमरमार्गे आकाशे प्रस्फुरन्तमित स्ततो भूत्वा दशदिग्गृहाङ्गहानि व्याप्नुवन्तं वायुवाहं धूमं वीक्ष्य दृष्ट्वा ॥