________________
सर्ग १५ श्लो० ६१-६२]
हीरसौभाग्यम्
६५९
क्वचित्कस्मिन्नपि गिरेः प्रदेशे मरकतानि अश्मगर्भा नीलमणय एव रूपं यस्य इन्द्रनीलरत्नघटितं शृङ्ग शिखरं बभासे शुशुभे । किंभूतं श्रृङ्गम् । स्फटिकानां क्षीरतल. स्फटिकरत्नानां घटना रचना यत्र तत् । पुनः किंभूतम् । अन्तर्मध्ये क्वापि स्थाने पदमरागा अरुणमणयस्तैः प्रगल्भ पटुशोभम् । पुनः किंभूतम् । निर्झरैनिःसरन्नीरधा. राधोरणीभी राजमानम् । उत्प्रेक्ष्यते-ध्वनिना गम्भीरशब्देन जितमभिभूत सत्सावं ऋषभदेवं शीलत् सेवमानभ्रं मेघ इव । 'मेघगम्भीरघोषत्वम्' इति हैम्याम् । किंभूतमभ्रम् । कलिता धृता कला मनोज्ञा बलाका बलाकां गता । मेघसमये हि बलकानां गर्भाधान जायते । अत एव मेघदूतकाव्ये प्रोक्तम्-'गर्भाधानक्षणपरिचयात्खे भवन्त बलाकाः सेविष्यन्ते' इति । तथा वर्षासु बका नीडवृक्षादावेवोपविश्य तिष्ठन्ति, बलाकानां तेषां भक्ष्यमानीय ददते । 'बगला पावसवइठा' इति लोकवृत्तावपि शृयते प्रसिद्धिः। तस्माद्वलाकापदापादानम् । तथा आकालिकी विद्युत् । तथा वारिधारा जलवृष्टयो येन ॥
શ્લોકાર્ધ પર્વતના કોઈ ભાગમાં સ્ફટિક રનની રચનાવાળું, મધ્યમાં પદ્યરાગ મણિઓથી સુશોભિત અને પવિત્ર ઝરણાઓવાળું નીલમણિનું શિખર શુભતું હતું. જાણે સુંદર બગલા, વિદ્યુત અને જલ વૃષ્ટિવાળો મેઘ, ભગવાનના ગંભીર સ્વરથી પરાભવ પામીને શ્રીવૃષભદેવની ઉપાસના કરતે ન હોય! ! ૬૧ છે
क्वचिदपि रुचिचिञ्चत्पद्मरागप्रगल्भं
मरकतमणिचङ्गोजुङ्गशृङ्गं चकासे । विजितऋषभभ; धीरगम्भीररावै
स्तप इव तनुतेऽस्मिंस्तत्तुलाप्त्यै तडित्त्वान् ॥ ६२ ॥ 'क्वचिदपि कुत्रापि स्थाने शत्रुजयपर्वतोपरिभूमौ मरकतमणीनां महेन्द्रनीलरत्नानां चङ्गं प्रधानं मरकतमाणिक्यैर्वा चङ्गं चारु तथोत्तुङ्गभ्रंलिमहं शृङ्गं चकासे दीप्यते स्म । किंभूतम् । रुचिभिनिर्यज्ज्योतिःपुजैश्चञ्चद्भिर्दीप्यमानैः पद्मरागैः लक्ष्मीपुष्परत्नैः प्रगल्भं भ्राजमानम् । उत्प्रेक्ष्यते-ऋषभभर्चा विमलाचलकमलालंकारहारेण श्रीवृषभदेवस्वामिना आदिनाथेन धीरैरभङ्गाघुघुरैः गम्भीरैर्मन्द्रः मध्यमानपाथीनाथनि?षानुकारिभिः रावैः स्वशब्दैः जितः पराभूतः सन् तडित्त्वान् विद्युबलयालंकृतो जलधरस्तेषां जैनधीरगम्भीररावाणां तुलायाः सादृश्यस्य आप्त्यै प्राप्त्य किं तपस्तनुते उपवासादिकष्ट करातीव ॥
रोथ
શત્રુંજ્ય પર્વતના કોઈ સ્થાનમાં પદ્મરાગ મણિઓથી રચિત ભવ્ય મરકત મણિનું ગગનચુંબી શિખર શેભે છે; જાણે શ્રી ઋષભદેવના ધીર ગંભીર અવાજથી પરાભવ પામેલે મેઘ તેની સમાનતા પ્રાપ્ત કરવા માટે તપશ્ચર્યા કરતા ન હોય! છે ૬૨ |