________________
सर्ग १५ श्लो० ५८-५९ ] हीरसौभाग्यम्
रसिककरिविलेालत्कर्णतालौघतूरध्वनिमधुकरराजीगुञ्जितेोदात्तगीतौ । कचिदिह गुरुव प्रेरिता मारुतेन स्त्रिय इव वनवल्लयः पत्रहस्ता अनृत्यन् ।। ५८ ॥
६५७
इह श्रीसिद्धशैले क्वचित् कुत्रापि प्रदेशे स्त्रियो नृत्यकृत्कामिन्यो नर्तक्य इव वनवल्लयः काननोद्गतलता अनृत्यन् नृत्यन्ति स्म । किंभूताः । मारुतेन वायुना प्रेरिताश्चपलीकृताः । उत्प्रेक्ष्यते - गुरुणेव । यथा नाटकाचार्येण सूत्रधारेण प्रेरिताः प्रवर्तितास्ताण्डवकारिकाः पात्राणि नृत्यन्ति । किंभूतानि । पत्राणि पर्णान्येव पवनचञ्चलत्वात् हस्तकाः पाणिविक्षेपा यासां ताः । नृत्यन्ति कस्यां सत्याम् । रसिकाः स्वैर स्ववशाभिर्वनद्रुमेषु सल्लकीकाननेषु क्रीडारसकल्लोलितचेतसा ये करिणो गजेन्द्राः तेषां सशब्दं चञ्चलीभवतामितस्ततः संजाय● मानानां कर्णतालानां श्रोत्रपत्राणाम् । 'उषसि गजयूथकर्णतालैः' इति रघुवंशे । ओघाः समूहास्त एव तूराणां वादित्राणां ध्वनयो निर्घोषास्तथा मधुकराणां विकसितकुसुमारविन्दवृन्दमकरन्दबिन्दुमदान्मदबन्धुरगन्धसिन्धुरकपोलस्थल गलन्मदेादकपानमेदुरीभूतानां भ्रमराणां गुञ्जितानि गुजारवा एव उदात्ता मनोज्ञा गीतिर्गानं तस्यां सत्याम् ||
શ્લેાકા
સિદ્ધગિરિના કોઈ ભાગમાં, જગલની વેલેા સૂત્રધાર જેવા પવન વડે પ્રેરાઈને જાણે ન કીની જેમ નૃત્ય કરતી હતી ! વનવિહારી રસિક હાથીઓના ચપલકણુ તાલનાં સમૂહરૂપ વાજિંત્રનેા જેમાં ધ્વનિ છે, ભ્રમરોની પંક્તિના ગુજારવરૂપ જેમાં સુંદર ગીત છે, અને પત્ર ( પાંદડાં) રૂપ હાથના જેમાં હાવભાવ છે, તેવા પ્રકારની વેલડીએ જાણે નૃત્યને વિસ્તારતી હતી. ।। ૫૮૫
लुलितगगनगङ्गासीक सारवन्तः स्मिततरुवनमालामन्दमान्दोलयन्तः । विकचकुसुभपद्मामाद मेदस्विनेा यं
प्रभुभव पवमानाः सेवकाः शीलयन्ति ॥ ५९ ॥
पवमाना मारुताः यं पुण्डरीकाचलं शीलयन्ति । के इव । सेवका इव । यथा अनुचराः प्रभु स्वामिन सेवन्ते । वायुविधा वर्ण्यते । शीता मन्दः सुरभिश्च । तदेव त्रैविध्य दर्शयति- किंभृताः पवमानाः । लुलिताः पवनवेगेनान्दोलिता अतिचपलीकृता या गगनस्य गगनवर्तिनी वा आकाशे प्रवहमाना भूमिगतवत् या गङ्गा सिद्धधुनी देवनदी तस्याः सीकराणां जलकणानामासारो वेगवती वृष्टिर्विद्यते येषु । इति शीतलत्वम् । पुनः किंभृताः । हि सौ० ८३