SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ .६५६ [ सर्ग १५ श्लो० ३६-३८ सौभाग्यम् अलभत वयसीत्वं जृम्भाणा तमालालिरिह यमुनाया भास्वदङ्के स्थिताया ॥ ५६ ॥ इह शत्रुंजयाद्रौ क्वचन कुत्रचन स्थानके कस्मिन्नपि वा कनकशृङ्गे सुवर्ण शिखरे जम्भमाणा विकसन्ती तमालानां तापिच्छद्रुमाणामावलिः श्रेणी भास्वदङ्के सूर्योत्सङ्गे स्थितायाः पितुः सवितुरुत्सङ्गे खेलन्त्या यमुनाया यमभगिन्या नद्याः वयसीत्वं सखीभावमलभत प्राप्नोति स्म । किंभूता । रङ्गो रङ्गणं पर्यटनम् । 'अगिरगिलगि गत्यर्थाः' इत्ययं धातुः । तथा रञ्जनं रङ्गो रागः । 'रज्ञ्ज रागे' इत्यस्य प्रयोगश्च विद्यते । येषां रङ्गिणस्तेषां भृङ्गाणां भ्रमराणामनुषङ्ग सङ्गो विद्यते येषु तादृशाः क्षरन्तो निःसरन्तोऽमिता मानातीता ये मरन्दा मधूनि त एष स्पन्दा रसास्तेषां संदोहा राशयस्तैः सान्द्रा नीरन्ध्रा पूर्णा ॥ શ્લેાકા રાગી ભ્રમરેાના સંગવાળી અને જીવી રહેલા રસના પ્રવાહેાથી પૂણ સુવણુ શિખર ઉપર રહેલાં તમાલવૃક્ષાની પંકિત પોતાના પિતા સૂર્યના ઉત્સંગમાં ક્રીડા કરી રહેલી યમુના જેવું આચરણ કરતી હતી. ॥ ૫૬ ॥ मरकतकटकाङ्कस्फाटिकानुच्च कूटोदरविदलित पुष्पप्रस्फुरच्चम्पकद्रुः । नरकदम नामी पुण्डरीकाङ्कनिर्य जलजतनुजलीलामाल लम्बे कदम्बे ॥ ५७ ॥ कदम्बे शत्रुंजयाचले मरकतानाश्मगर्भमणीनां कटकस्य क्वापि नीलरत्ननिर्मितगिरिनितम्बस्याद्रिमध्यभागस्य अङ्कः क्रोडस्तत्र स्फाटिकं स्फटिकमणिसंबन्धि यदनुज्ञ्चं नात्युन्नतं नात्तुङ्गम् । लघु इत्यर्थः । कूटं शिचरं किंचिदुच्श्व गिरिप्रदेशस्तस्योदरे मध्ये गर्भे वा विदलितैर्विनिद्रीभूतैः पुष्पैः कुसुमैः प्रस्फुरद्दीप्यमानश्चम्पक दुर्हमपुष्पकपादपः कर्ता । नरकनाम्रो ऽसुरस्य दमनो हन्ता नारायणस्तस्य नाभ्यां तुन्दकूपिकायां यत्पुण्डरीकं श्वेताम्भोज' तस्याङ्गात् हृदयाल | उदरादित्यर्थः । निर्यतो निर्गच्छतो जलजतनुजस्य कमलभुवा ब्रह्मणो लीलां विलासमाललम्बे आश्रयते स्म । इति गर्भितापमा || श्लोकार्थ શત્રુંજયપર્વત ઉપર મરકતમણીનાં મોટા શિખરનાં મધ્યભાગમાં રહેલાં સ્ફટિકરત્નાના નાના શિખરોમાં રહેલું વિકસિત પુષ્પોથી શેાભતું ચંપકવૃક્ષ, વિષ્ણુની નાભિમાંથી ઉત્પન્ન થયેલા પુંડરિક કમલમાંથી નીકળતા બ્રહ્માની લીલા ધારણ કરતું હતું. ॥ પ૭૫
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy