SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सर्ग १५ श्लो० ४५-४६] हीरसौभाग्यम् .६४९ क्वचन कनकरत्नाधित्यकादीप्रदीप्ति दिनकरकरसङ्गागाहमानां विहायः । सकलकुलगिरीन्द्रान्यः पराभूय भूत्या कलयति किमु शैलः स्वेन मूते प्रतापम् ॥४५॥ यो विमलाद्रिः क्वचन कवापि प्रदेशे कनकानां काञ्चनानां रत्नानां रक्तपीतमणीनां वा अधित्यका ऊर्श्वभूमिस्तस्या दीप्रां दीपनशीला दीप्ति कान्ति कलयति धत्ते । किंभूतां दीप्तिम् । दिनकरस्य सूर्यस्य कराणां किरणानां सङ्गात्संपर्कादाश्लेषाद्विहाय आकाश गाहमानानां निर्भरं भरन्तीनाम् । गगनमण्डल यावत् प्रसृमराणामित्यर्थः । उत्प्रेक्ष्यतेसकलान् समग्रान कुलगिरीन्द्रान भूत्या आत्मलक्ष्म्या पराभूय जित्वा शैलो विमलशैलो. ञ्चयः स्वेनात्मना मूर्त तनूमन्तं सकललोकलोचनगोचर तन्मन्दरमेरुकैलाशादिशैलाभिभवोद्भवं प्रतापमिव बिभर्ति ॥ શ્લેકાર્થ શત્રુંજ્ય પર્વતને કોઈ પ્રદેશ સૂર્યનાં કિરણોના સંપર્કથી, આકાશને અવગાહી રહેલી સુવર્ણમય અને રત્નમય ભૂમિની દેદીપ્યમાન કાંતિ ધારણ કરતા હતે; તે જાણે પિતાના વૈભવથી સર્વે કુલપર્વતને પરાભવ કરીને પિતાના દ્વારા મૂર્તિમાન પ્રતાપ ધારણ કરાયો ન હોય! છે ૪પ बलिनिलयनिकेतैरात्मनः स्थूलभूलै र्धरणिधरतया यो भूभृतां सार्वभौमः । निखिलजलधिनेमीभारभुनाङ्गभाजो दिशति किमु कृपालुर्विश्रमं भोगिभर्तुः ॥ ४६॥ भूभृतां समस्तपर्वतानां सार्वभौमश्चक्रवर्ती नगाधिराजाभिधानत्वात् शत्रुजयाद्रिः धरणिधरतया भूभृत्त्वेन । उत्प्रेक्ष्यते-भोगिभर्तुः शेषनागस्य विश्रम प्रयासापमोद' किमु दिशति ददातीव । कैः । आत्मनः स्थूलमूलैः पुष्टैः पदैः अधः प्रविष्टप्रदेशैः । किंभूतैः । बलिनिलये पाताले निकेतो निवासो येषाम् । 'पातालमूलकैलाशः' इत्यभिधानत्वाच्च । किंभूतस्य भोगिभर्तुः । निखिला समग्रा या जलधिनेमिः सप्तद्वीपसमुद्रपर्यन्ता पृथिवी तस्या भाग वीवधस्तेन भुग्नं वक्रीभूतमङ्गं वपुर्भजप्तीति तस्य ॥ શ્લોકાથ પાતાલલેકમાં જેનું મૂલ છે તેવાં પિતાનાં સ્થૂલભૂલથી સમસ્ત પર્વતમાં શવું. हि० सौ० ८२
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy