SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ६४८ हीरसौभाग्यम् [सर्ग १५ श्लो० ४३-४४ असौ शत्रुजयाचलः क्वापि कुत्रचन प्रदशे मलय गिरिरिव दक्षिणाचल इव विभाति । 'अथ मलय आषाढो दक्षिणाचलः' इति मलयाद्रिनामानि हैम्याम् । कैः । काकोदराणां भुजगानामालीभिः राजीभिः कलितैरामूलचूल वेष्टितैर्मलयसालेश्चन्दनद्रुमैः । किंभूतैः । निर्यान्तः श्रीखण्डवनखण्डेभ्यो निर्गच्छन्तः प्रसरन्तः आमोदाः परिमला बिद्यन्ते येषु तादृशा वाता वायवो येभ्यस्तैः । अपि पुनः क्वचित्कस्मिंश्चिदपि स्थाने गजयूथैर्मत्तग. जपुञ्जः विन्ध्यवजलबालकशैल इव विभाति । किंभूतैः गजयूथैः । गलन्तीभिः कपोल. पालिभ्योऽविरलप्रवाहैः निष्पतन्तीभिः अमलाभिः अनाविला भिर्मदाम्भसा दानजलानां पङ्क्तिभिर्धारणीभिः संसिक्ताः सम्यक्प्रकारेण उद्यानपालवत्सेकं सिञ्चनं प्रापिता वृक्षा बालसालाः प्रौढपादपा वा यः ।। શ્લોકાથ શત્રુંજય પર્વતને કોઈ ભાગ નાગોના સમૂહથી વીંટળાયેલા ચંદનનાં વૃક્ષોથી સુવાસિત બનેલા પવન વડે મલયાચલનું અનુકરણ કરતો હતો ! કરી રહેલા મદજલની ધારાઓથી વૃક્ષે સિંચાયાં છે, તેવા ગજપૂથ દ્વારા વિધ્યપર્વતનું અનુકરણ કરતો હતો ! ૪૩ છે करिकदनकपदक्रोडलीलायमान त्रिदिवसदनपाथोनाथपद्माननेव । क्वचन कनकशृङ्गोत्सङ्गरङ्गत्तरङ्गा वलिललितविलासा कापि कुल्योल्ललास ॥ ४४ ।। यत्र शत्रुजये काप्य निर्दिष्टाभिधाना चतुर्दशसु नदीषु अन्यतमा कापि काचित्कुल्या कल्लोलिनी उल्ललास शोभते स्म । किंभूता कुल्या । कनकस्य काञ्चनमयस्य शृङ्गस्य शिखर स्योत्सङ्गे क्रोडे रङ्गन्ती प्रचलन्ती तरङ्गाणां कल्लोलानामावलिः श्रेणिः तया ललितो मनोज्ञो विलासो विलसनं यस्याः सा । उत्प्रेक्ष्यते-करिणो गजासुरस्य कदनं हननं यस्मादिति कृत्वा शंकरः । 'गजपुष्पपुरानङ्गकालान्धकमखासुहृत् । हरः', तथा 'निग्रन्थनं प्रमथन कदन निबर्हणम्' इति हनननामानि । इदं द्वयमपि हैम्याम् । तस्य शिवस्य कपर्दो जटाजूटः । 'कपर्दस्तु जटाजूट ईश्वरस्य' इत्यपि हैम्याम् । तस्य क्रोडेऽके लीलायमाना लीलया चलन्ती विलसन्ती वा त्रिदिवः स्वर्गस्तत्र तदेव वा सदन गृहं येषां तादृशा देवास्तेषां पाथसां पानीयानां नाथः स्वामी । 'यादःस्रोतोवानंदीशः सरस्वान्' इति हैम्याम् । समुद्रस्तस्य कमलमुखी पत्नी । 'समुद्रदयिताधुन्यौं' इत्यपि हैम्याम् । नदी । एतावता देवनदी गङ्गव स्फुरति स्म ॥ મર્થ કોઈ પ્રદેશમાં, સોનાના શિખરના મધ્યભાગે પ્રસરતા તરંગોની પંક્તિથી મનેહર નદી શેભતી હતી; તે જાણે-“ગજાસુર નામના દૈત્યને પરાભવ કરનાર શંકરની જટામાં રહેલી વસમુદ્રની પત્ની આકાશગંગા ન હોય તેવી શેભતી હતી. ૪૪ છે
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy