________________
[सर्ग १५ श्लो० ४१-४३
हीरसौभाग्यम्
६४७
किंलक्षणः । प्रसृतानि दिशि दिशि विस्तारं गतानि ऊढानि वा झराणां निर्झराणां पयांसि जलानि यस्मिन् सः । 'स्नुः प्रस्थं सानु' इति हैम्याम् ।
साथ વિકસ્વર પાંદડાઓથી શ્યામ બની ગયેલાં વૃક્ષોના સમૂહને અવલંબીને રહેલું તેમજ જેમાં ઝરણાઓ વહી રહ્યાં છે તેવા શત્રુંજય પર્વતનું સુવર્ણમય શિખર ચમકતી વિજળીઓવાળા, જલવર્ષા કરતા વર્ષાઋતુના મેઘની કાન્તિનું જાણે અનુકરણ કરતું હતું.
क्वचिदपि लसदाभ्रस्फाटिकोत्तुङ्गशृङ्गा
गणधरणिचरिष्णः मास्पृशां प्रेक्ष्य लक्षाः । इति मतिरुदयासीद्यनितम्बस्थितानां किमिह चरति पङ्किः स्वैरमेषा सुराणाम् ॥ ४२ ॥
यस्य शत्रुजयाद्रेनितम्बे मेखलायां स्थितानामुषितानां वा पुंसामित्यमुना प्रकारेण मतिरुदयासीदाविर्भूता । इति किं का बुद्धिः। यदेषां प्रत्यक्षलक्ष्या सुराणां देवानां पङ्क्तिः धोरणी इह विमलाचले स्वैर स्वेच्छया चरति विहरति भ्राम्य ति वा । किं कृत्वा । क्वचिदपि कुत्रापि प्रदेशे विशेषे । 'लस श्लेषणक्रीडनयोः' इति धातुः। लसतां श्लिष्यतामर्थात्परस्परं शिखरापेक्षया आभ्रस्फाटिकानामाकाशस्फटिकरत्नानामिमानि आभ्रस्फाटिकानि । क्वचिन्दयोः पूर्वोत्तरपदयोवृद्धिर्भवति । 'आग्निमारुतं कर्म सौहार्दम्' इति सारस्वतव्याकरणे, तद्वदत्राप्युभयत्र वृद्धिः । आकाशस्फटिकमयानि क्रीडया कुतूहलेन वा देवविरचितानि स्वाभाविकानि वा तथा उत्तुङ्गानि गगनाङ्गणालिङ्गीनि शुङ्गाणि शिखराणि तेषामङ्गणान्यजिराणि अधित्यका वा तेषां तासां वा धरणौ भूमौ चरिष्णूः संचरणशीला क्ष्मास्पृशां यात्रिकमानवानां लक्षाः शतसहस्राणि प्रेक्ष्य दृष्ट्वा दृग्गोचरीकृत्य । आकाशस्फ. टिकमणीनां चर्मचक्षरलक्ष्यत्वात्सुराणां चाम्बरचारित्वादेषा घटना ॥
લેકાર્થ
શત્રુંજય પર્વતના દેદીપ્યમાન અબ્રસ્ફટિકનાં ઊંચાં શિખરોની ભૂમિ ઉપર ચાલી રહેલા લાખો મનુષ્યોને જોઈને પર્વતની તલાટીમાં રહેલા લેકો કલ્પના કરતા હતા કે જાણે “સ્વેચ્છાપૂર્વક દેવેની શ્રેણી ચાલી રહી છે !' એ કરે છે
मलयगिरिरिवासौ क्वापि काकोदराली
कलितमलयसालैनिर्यदामोदिवातैः । गलदमलमदाम्भःपक्तिसंसिक्तवृक्षेः क्वचिदपि गजयूथैर्विन्ध्यवद्यो विभाति ॥ ४३ ।।