________________
हीरसौभाग्यम्
[सर्ग १५ श्लो० ४०-४१
त्रिदिवसदनभूभृत्सार्वभौमाध्वरोधोद्धरशिखरसहस्रः पुण्डरीकावनीभृत् ।
धरणिमिव फणाभिश्चक्रिणां चक्रवर्ती त्रिदिवमिव दिधीषुर्लक्षकैर्लक्ष्यते स्म ॥ ४० ॥
पुण्डरीकावनीभूद्विमलाचलः त्रिदिवं स्वर्गलोकं दिधीपुः धर्तुमिच्छुरिव लक्षकैदर्शयि. तृभिरवलोककलोकैर्लक्ष्यते ज्ञायते । कैः । त्रिदिवे स्वर्ग सदन गृह येषां ते त्रिदिवसदना देवास्तेषां भूभृत्पर्वतो मेरुः । 'स्वःस्वर्गिकाञ्चनतोगिरिः' इति हैम्याम् । सुराचलस्तस्य सार्वभौमश्चक्रवर्ती शक्रः । 'जाम्बूनदोधिरसार्वभौमः' इति नैषधे इन्द्राभिधानम् । तस्येन्द्रस्याध्वा मार्गो गगनम् । 'बहुविगाढसुरेश्वराध्वा' इति नैषधे च । तस्याध्वनो नभर रोधे रुन्धने उद्धरैरुत्कटः शिखराणां शृङ्गाणां सहस्रर्भूयस्तरदशशतीभिः प्रमितैः । कृत्वा इत्यर्थः । क इव । चक्रवर्तीव । यथा चक्रिणां नागानां सार्वभौमः शेषनागः सहस्रफणाभिः कृत्वा धरणिं भूमिं धत्ते । 'धरणिविरहिणि क्लान्तमुद्रे समुद्रे' इति नाटकशास्त्रे धरणिशब्दो ह्रस्वोऽप्यस्ति । 'मुदा यस्योद्गीतं सह सहचरीभिर्वनचरैर्मुहुः श्रुत्वा हेलोद्धृतधरणिभारं भुजबलम्' इति वाग्भटालंकारेऽपि ॥
કાથ
નાગોને ચક્રવતી શેષનાગ જેમ પોતાની હજાર ફણુઓ વડે પૃથ્વીને ધારણ કરે છે તેમ સ્વર્ગરૂપ ઘરવાળા મેરૂપર્વતના ચકવતી ઈન્દ્રના માર્ગને (આકાશને) અવરોધીને રહેલાં હજારે શિખરે વડે પુંડરિકગિરી જાણે સ્વર્ગને ધારણ કરતો ન હોય તેમ પ્રેક્ષકોबडे भातो डतो. ॥ ४० ॥
विदलितदललीलाश्यामलीभूतभूमी___ रुहनिवहनितम्बालम्बिजाम्बूनदस्नुः । प्रसृतझरपयस्कः प्रावृषेण्याम्बुवर्षि
स्फुरदशनिपयोदं योऽनुयातीव कान्त्या ।। ४१ ॥
यः शत्रुजयाद्रिः प्रावृषेण्य वर्षाकालसंबन्धिन अम्बु पानीयं वर्षतीत्येवंशीलः, तथा स्फुरन्ती विद्योतमाना प्रतिदिशं चमत्कारं कुर्वती वा अशनिर्विद्युद्यत्र तादृशं पयोद मेधं कान्त्या शोभया कृत्वा अनुयातीव आत्मना अनुकरोतीव । यः किंभूतः । विदलितानां विशेषेण विकाशं प्राप्तानामुन्मिषितम् । 'विकसित दलितं स्फुटितं स्फुटम्' इति हैम्याम् । दलानां पत्राणां लीलया विलासेन श्यामलीभूतानां कृष्णच्छवीभूतानां भूमीरुहाणां द्रुमाणां निवहाः समूहा यत्र तादृशं नितम्बमालम्बते श्रयतीत्येवंशीलम् । 'मेखलामध्यभागोऽद्रेनितम्बः कटकश्च सः इति हैम्याम् । जाम्बूनदं काञ्चनमयं स्नुः शिखर यस्य । पुनः