________________
सर्ग १५ श्लो० ३८-३९]
हीरसौभाग्यम्
६४५
दक्षिणार्णवे सेतुर्बद्ध इति श्रुतिः । 'सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तयः' इति भोजप्रबन्धे । क्वचित्कुत्र च स्थाने इभ्यधाम व्यवहारिवेश्मेव वसूनां मणीनाम् । 'रत्न वसुमणिः' इति हैम्याम् । स्वर्णानां च । 'स्वर्ण हेमहिरण्यहाटकवसन्यष्टापदं काञ्चनम्' इत्यपि हैम्याम् । राजी श्रेणी धत्ते दधाति । अपि पुनः क्वापि शिखरादिप्रदेशे ब्रह्मवन्मोक्ष इव दुःखेनाधिगम्यते इति दुरधिगमं तस्य भावो दुरधिगमत्वं दुरारोहतामधत्त बिभर्ति स्म । पुनः क्वापि ऋषभकूटादौ लदैव दशकंधरनगरीव कनकसाल काञ्चनप्राकारं व्यधृत धरति स्म ।।
શ્લેકાર્થ
શત્રુંજય પર્વત કઈ સ્થાને પશ્ચિમ સમુદ્રના સેતુ (પુલ)ની જેમ દેખાતું હતું, કોઈ સ્થાને શ્રેણીના ઘરની જેમ સુવર્ણ અને રત્નોની શ્રેણીને ધારણ કરતો હતે, કોઈ
સ્થળે મોક્ષની જેમ દુપ્રાપ્ય લાગતો હતો તે કોઈ સ્થાને લંકાની જેમ સુવર્ણના કાટને ધારણ કરતા હતા. છે ૩૮
स्फुटकटतटनिर्यदानपाथःप्रवाहैः
शिशुशिखरिसमूहान्सिञ्चदश्चद्वनान्तः । क्वचिदपि करियूथं विन्ध्यधात्रीभृतीव
प्रणयति रतिकेलीं यत्र सत्र कलत्रैः ॥ ३९ ॥
यत्र शत्रुजये क्वचिदपि कुत्रचनापि वनगह्वरप्रदेशे करियूथं गजवृन्दं कलत्रैः स्वकरिणीभिः सत्रा साध रत्या मनस्तुष्टया रागेण च केली विविधक्रीडां सुरतविलास वा प्रणयति करोति । कस्मिन्निव । विन्ध्यधात्रीभृतीव । यथा स्वोत्पत्तिस्थाने विन्ध्यशैले गजघटा स्ववशाभिः । 'गजोऽस्य स्त्री धेनुका वशापि च' इति हेम्याम् । स्वैरं रमते । किं कुर्वन् । स्फुटं प्रकटं जननयनगोचर यथा स्यात्तथा कटतटाभ्यां कपोलस्थलाभ्यां सकाशान्निर्यद्भिनिःसरद्भिर्दानपाथसां मदोदकानां प्रवाहैर्धाराप्रवहणः कृत्वा बालानां नवप्ररूढानां शिखरिणां वृक्षाणां समूहान् गणान् सिञ्चत् पानीय पायन् । पुनः किं कुर्वन् । बनान्तर्विपिनमध्ये अञ्चत् चरत् ॥
બ્લેકાર્થ
શત્રુંજ્ય પર્વતના કોઈ ભાગમાં પ્રગટપણે પિતાના ગંડસ્થલમાંથી વહી રહેલા મદજલના પ્રવાહથી બાલવૃક્ષ (વૃક્ષના છોડવાઓ)ના સમૂહને સિંચન કરતું જંગલની મધ્યમાં સંચરતું હાથીઓનું ટેળું વિંધ્યાચલની જેમ પોતાની હાથણીઓની સાથે રતિક્રીડા કરતું હતું કે ૩૯ છે