________________
सर्ग १५ श्लो० ३५-३६ ]
हीरसौभाग्यम्
६४३
क्वचिदपि कमलानामात्मनोऽक्षीणभावं त्रिजगदनिशदानेनाप्ययाच्यत्वमन्यत् । किमु विवरिषुरेष प्रावृषेण्याम्बुवाहो वशदविमलशैलं शीलति स्माञ्जनौघः ॥ ३५ ॥
अञ्जनानामजनाभिधानातिनीलवर्णवृक्षविशेषाणामोघः समुदयः शत्रुजशैल शीलति सेवते । निकुरम्बेण समुद्गताः सन्तीत्यर्थः । उत्प्रेक्ष्यते- एषः अञ्जनपादपवपुः प्रत्यक्षलक्ष्यः प्रावृषेण्याम्बुवाहः किमु वर्षाकालसंबन्धी वारिवाह इव भजते । किं कर्तुमिच्छुः । त्रिजगतां त्रयाणामपि भुवनानामनिशं निरन्तरमविच्छेदं दानेन विश्राणनेनापि स्वस्य कमलानां लक्ष्मीणा जलानां च क्वचिदपि कुत्रापि स्थाने क्षीणत्वं न सर्वत्राप्यक्षीणभावं शाश्वतत्वम् अन्यत्पुनः अयाच्यत्वमर्थिभावम् । मेघा हि क्षीरसमुद्राद्याचित्वा जलमादाय वर्षन्ति इति कविसमयो लोकरूढिश्च । कस्यापि याच्यां न कुर्म इत्ययाच्यत्व किमु विवरिषुर्याचितुमिच्छुरिव । कम् । वशं कामितं ददातीति । 'तृष्णा लिप्सा वशः स्पृहा' इति हैम्याम । वशदः समीहितदायक ताहां विमलौलं शीलति । किं चाक्षीणल याचनीयमेव न भवेत, तर्हि किमर्थमयाच्यत्वयाच्चायुक्त परं किंचिद्वस्तु लक्ष्यापि दुःप्राप्य स्यात्, तद्याच्त्रायां केनचित्कृतायां तदपि अविद्यमानतया कुतोऽप्यानीयाभ्यर्थ्यादाय वा दातव्यं भवेत, अत एव विश्वविश्वपदार्थेश्वरत्वमयाच्यत्वमिति ॥
શ્લોકાર્થ અંજન નામના વૃક્ષનો સમૂહ વિમલાચલને સેવત હતો; તે જાણે વર્ષાકાલનો મેઘ પિતાની લકમી (જલ)ને અખૂટ બનાવવા માટે યાચના કરતે ન હોય અથવા સમુદ્ર પાસેથી જલ લઈને સ્વયં જગતને દાન કરતા હોવાથી પિતાની અયાચકતા (બીજા પાસે યાચના નહી કરવારૂપ)ની યાચના કરવા માટે અભિષ્ટ ફલદાયી વિમલાચલની સેવા કરતો ન હોય ! | ૩૫ છે
असुरसुरनराणां श्रेणिभिः सप्रियाणां स शिखरिपृतनापाड् भूष्यते निर्विशेषम् । भुजगभवनदेवावासविश्वंभराणां सममखिलविभूषादित्सयेवोत्सुकाभिः ॥ ३६ ॥
स शत्रुजयः शिखरिणां समस्तपर्वतानां पृतनाषाडिन्द्रः सप्रियाणां साङ्गानामसुराणां दानवानां नागानां वा सुराणां देवानां नराणां मनुष्याणां श्रेणिभिर्धारणीभिर्निगतो विशेष: सेवाविधौ यत्र तथा भृष्यते अलंक्रियते । उत्प्रेक्ष्यते-सममेककाल भुजगभवनं पाताललोक