________________
६४२
हीरसौभाग्यम्
[सर्ग १५ श्लो० ३३-३४
विमलनामा वसुमतीभृत्पर्वतः प्रकर्षणोन्नतिमुच्चैस्तरत्व संतनाति सम्यक्तया वृद्धिं विदधाति किमु । उत्प्रेक्ष्यते-स्वलक्ष्म्या निजवैभवेन कृत्वा अखिलानष्टावपि कुलशैलान्मन्दरप्रमुखान् गिरीन् जेतुकाम: किं पराभवितुमिच्छुरिव । वा अथ वा । उत्प्रेक्ष्यतेदिशो दशापि हरितः प्रेक्षितुमिव । क इव । तरुण इव । यथा युवा मृगाक्षीः सारङ्गसु. न्दरलोचनास्तरुणीः प्रेक्षितुमुन्नतीभवति । उताथ वा । उत्प्रेक्ष्यते-निखिलस्य समग्रस्य सचराचरस्य लोकस्य त्रिभुवनस्यापि आलोकने दर्शने उत्कण्ठा औत्सुक्यं विद्यते यस्मिन् तादृशं चेतो मानसं यस्यैवंविधं किमुच्चैस्तरः संजातः ।।
કાર્થ
વિમલાચલ અતિ ઊંચાઈવાળે છે. કેમ! પિતાના વૈભવથી જાણે મેરૂ આદિ કુલ પર્વતને જીતવા માટે ઇચ્છતો ન હોય! અથવા યુવાનની જેમ દિશાઓ રૂપી મૃગાક્ષીઓને જોવા માટે તલસતો ન હોય ! અથવા ચરાચર જગતને જોવા માટે ઉત્કંઠિત બન્ય ન હોય! છે ૩૩ છે
उदयदरुणबिम्बेनैकतो नैशनिर्यत्तिमिरपरिकरेणाप्यन्यतः पर्वतेन । कलितनिलयरत्नः पृष्ठतिष्ठत्तमिनो दिननिधननिकेतापातिलोकोऽनुचक्रे ॥ ३४ ॥
पर्वतेन श्रीशत्रुजयाद्रिणा दिनस्य वासरस्य निधनं नाश एतावता संध्यासमयस्त. स्मिन्निकेतं निजवाससौधमापतत्यागच्छतीत्येवंशीला लोको जनो येनानुचक्रे अनुकृतः स्वसदृशो विहितः । केन कस्मिन् । पूर्वदिग्विभागवर्तिपार्श्वप्रदेशे उदयदुद्गच्छदुदयाच लचूलिकामलंकुर्वत् अरुणस्य भास्करस्य बिम्ब मण्डल तेन । अपि पुन: केन । अन्यतः अपरस्मिन् प्रतीचीदिग्वर्तमानपावें नैशानां निशासंबन्धिनां निर्यतां स्वद्रोहिध्वान्तारा. तिभीतेनिःसरतां तिमिराणामन्धकाराणां परिकरेण परिवारेण । प्रकरणेत्यर्थः । किंभूतो लोकः । कलितं भूरितमानुच्छेद्यभूच्छायाच्छादितनिखिलपुरस्थपदार्थसार्थप्रकटीकरणप्रगुणप्रणिगणं स्वहस्ते गृहीत निलयरत्नं प्रदीपो येन । पुनः किंविशिष्टम् । पृष्ठे स्वनिर्मक्त पश्चात्प्रदेशे तिष्ठद्वर्तमानं तमिस्रमन्धकारं यस्य ।।
લોકાથી
ગાઢ અંધકારના સમૂહથી વ્યાપ્ત શત્રુંજય પર્વત ઉદય પામતાં સૂર્યનાં બિંબ વડે જાણે હાથમાં દીપક લઈને સંધ્યા સમયે પિતપિતાના ઘેર જતા મનુષ્યની સમાનતા ધારણ કરતા હતા. એ ૩૪ છે