________________
हीरसौभाग्यम्
[सर्ग १५ श्लो० ३०-३१
क्वचिदपि सरिदम्भो गाहितुं साग्रहेण
द्विरदसमुदयेनोन्मादिनास्मिन्दिदीपे । कुलिशशयभयो-नष्टवार्धिप्रविष्टा
खिलशिखरिविभूषामिच्छताछेत्तुमूहे ॥ ३० ॥ अस्मिन् श्रीशत्रुजये क्वचिदपि कुत्रापि स्थाने द्विरदसमुदयेन विन्ध्यावत्तत्र कथं. चिदुत्पन्नेन राजादीनां स्वेच्छया चरणार्थ मुक्तेन वा गज यूथेन दिदीपे । किंभूतेन । उन्मादिना मदोदय मत्तीभूतेन । पुनः किंभृतेन । सरितः शत्रुजयाप्रमुखचतुर्दशमहानदीषु कस्याश्चिन्नद्याः अम्भो जलं गाहितुं मध्ये प्रविश्य सलिलकेलिं कर्तुं साग्रहेण सहठेन निर्बन्धवता । तत्राहमेवमूहे वितर्कयामि । कुलिशं वज्र शये पाणौ यस्य स शकस्तस्य भयेन भीतेर्वशेन उठाः पृथिव्याः सकाशान्नष्टाः पलायिताः सन्तो वाधौं स्वप्राणताहगपरस्थानाभावात्तद्धातृसकललोकपालकपुरुषोत्तमनिवासस्थाननीरनिधिमध्ये प्रणश्य प्रविष्टाः अखिलाः समग्रा ये शिखरिणः शैलास्तेषां विभूषां शोभामाछेत्तुं हठादगृहीतुमिच्छता वाञ्छतेव ॥
બ્લેકાર્થ શત્રુંજય પર્વતની કઈ નદીમાં જલક્રીડા કરવાનો આગ્રહ રાખતા મન્મત્ત હાથીઓ ભતા હતા. તે હાથીઓ જાણે ઈન્દ્રના ભયથી નાસીને સમુદ્રમાં પ્રવેશી ગયેલા સમસ્ત પર્વતની શોભાને બલાત્કારે ગ્રહણ કરવા ઈચ્છતા ન હોય ! છે ૩૦ |
क्वचिदुदरशयालून्प्रौढगर्भान्महेला
इव दधति धरेन्दोः कंदराः सिंहशावान् । अपि बभुरिह नागाः प्रेषिता यत्प्रसत्यै निजगरिमजितेनेवाञ्जनेनात्मशृङ्गाः ॥ ३१ ॥
क्वचित्कुत्रापि प्रदेशे धरेन्दोः शत्रुजयशैलराजस्य कंदराः गुहाः सिंहशावान केसरिकिशोरान्दधति बिभ्रति । का इव । यथा धरेन्दोः पृथिवीनिशीथिनीनाथस्य महेला नित. म्बिन्यः उपलक्षणानिखिला अपि योषितः प्रौढान प्रगल्भान संपूर्णनिष्पन्नान गर्भान भ्रणान बिभ्रति । किंभूतान् । उदरेषु कंदरामध्येषु कुक्षिषु घ शयालून शयनशीलान् निद्रामुद्रितलोचनान स्थायुकांश्च । अपि पुनरिह श्रीशत्रुजयाचले नागाः गन्धसिन्धुराः बभुर्भान्ति स्म । उत्प्रेक्ष्यते-निजस्य विमलशैलात्मनो गरिम्णा गुरुतया तुङ्गत्वेन जितेनाभिभूतेनाअनेनाञ्जननाम्ना पर्वतेन यस्य पुण्डरीकाद्रेः प्रसत्यै प्रसन्नीकरणार्थमनुकूलीकरणाय प्रेषिताः प्रस्थापिता आत्मनोऽञ्जनगिरिसंबन्धिनः शृङ्गाः शिखराणीव ॥