SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सर्ग १५ श्लो० २८-२९] हीरसौभाग्यम् निद्रा विरामे कृतत्वात शोभनं तेषाम् । किंभूताः। प्रतिश्रुति प्रतिशब्दे । 'प्रतिश्रुत्तु प्रतिध्वनिः' इति हैम्याम् । मुखरिता वाचालीकृताः शिखराणां शृङ्गाणामोघाः समूहा यैस्ते । पुनः किं. कुर्वन्तः । मेघानां प्रबलजलधराणां घोष धीराणां घोषं धीरगम्भीरगर्जारव प्रति द्विषन्तः स्पर्धमानाः । उत्प्रेक्ष्यते-विमलधरणिभर्तः श्रीशनंजयशैलस्य तथा विमलनामो राजविशेषस्य वा विश्वषां समस्तानां जगतां व। तीर्थानां मुक्तिस्थानानां मागधप्रसादादीनामीश्वरत्वेनाधिपत्येनाभ्युदिताः प्रादुर्भूता ये हृदवलेपा अहंकारास्तैः कृत्वा हुंकृतानीव हुंकारशब्दा इव । चक्रवा; दयः केचिद्विश्वाधिपत्याहंकृतेहुंकृतीः कुर्वते ॥ શ્લેકાર્થ મેઘગજનાને તિરસ્કાર કરનાર મદદ્ધર સિંહના સિંહનાદના પડઘા વડે મુખરિત બનેલાં શિખરો શેભે છે, તે જાણે જગતનાં તીર્થોમાં પિતાના તીર્થાધિપણાથી હૃદયમાં ઉત્પન્ન થયેલા અહંકારના હુંકારા ન હોય! ૨૮ છે निकटविटपिपत्रिवातवातप्रपाति स्मितकिसलयपुष्पाक्लप्ततल्पानिवात्र । सुखमनिमिषलेखाः संनिषण्णैणनाभी सुरभिमणिशिलाङ्कान्साङ्गनाः संश्रयन्ते ॥२९॥ · अनिमिषाणां देवानां लेखाः पतयः सुखं सात यथा स्यात्तथा अत्र शत्रुजयाद्रौ संनिषण्णाः सम्यगुपरि उपविष्टा ये एणाः कस्तूरिकामृगास्तेषां नाभीभिस्तुन्दकूपिकाभिः सुरभयः कस्तूरिकोत्पत्तिस्थानसंपर्कात्सुगन्धा या मणीनां रत्नमयाः शिलास्तासामङ्कानुत्सङ्गान् संश्रयन्ते । किंभूताः । अनिमिषाः साङ्गनाः स्वस्वयुवतीसखाः । उत्प्रेक्ष्यतेक्लप्तान रचितान् पुष्पपल्लवादिविच्छित्तिकलितान् तल्पान पल्यङ्कानिव । किंभूतान् । निकटयोरुभयोः पार्श्वयोविटपिनोविनिद्रद्रुमास्तेषु पत्रिणां विविधविहंगमानां वाताः प्रकारास्तेषां वाताः उड्डयनोपवेशनगमनागमनसमय विधूत पक्षपवनैः प्रकर्षेण पतन्तीत्येवंशीलानि । तथा स्मितानि विकसितानि किसलयानि पल्लवाः पुष्पाणि कुसुमानि येषु तान् । अन्येऽपि तरुणीसहितास्तरुणाः पुष्पपल्लवरचनाञ्चिते पर्यके सुख भजन्ते ॥ શ્લેકાર્થ કસ્તૂરીમૃગના સંપર્કથી સુવાસિત બનેલી રત્નની શિલા ઉપર પિતાપિતાની દેવીએની સાથે દેવોની શ્રેણી સુખપૂર્વક આશ્રય કરતી હતી, તે શિલા જાણે બંને બાજુ રહેલાં વૃક્ષ ઉપરથી ગમનાગમન કરતા પક્ષી ગણના પવનથી નીચે પડેલાં પલે અને પુષ્પથી બનાવેલે પલંગ ન હોય ! | ૨૯
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy