________________
सर्ग १५ श्लो० २५-२६ ]
हीरसौभाग्यम्
६३७
येषु एतावता बहुमूल्यानामप्रतिमप्रभाप्रभाववतां च मणीनां रत्नानां मालाभिः श्रेणीभिः शालते शोभते इत्येवंशीला । गिरिनदीषु मणिसद्भावः किरातार्जुनकाव्ये कथितोऽस्ति । किंभूता । प्रतिफलितः अन्तर्जल प्रतिबिम्बितो यो विवस्वान सूर्यः तस्य दीप्त्या कान्त्या दुःखेन प्रेक्षितु योग्या द्रष्टुमर्हा । किंभूतां युवतीम् । सुकृतेन प्राचीनजन्माचीर्णन पुण्येन भरितस्या
य पूर्णस्य जन्तोर्जीवस्य गर्भ दोहदलक्षणमन्तः कुक्षौ वहन्तीं धारयन्तीम् । पुनः किंभृता । स्मेरद्विनिद्रधदम्मेोरुह कमल तप विकसितसरोजवता आस्य मुख यस्याः। 'स्मेरदभ्भोजखण्डाभिः' इति पाण्डवचरित्रे । तथा युवत्यपि पुण्यप्राग्वद्गर्भानुभावाहुःप्रेक्षणीया । यथा 'धामकधाम गङ्गाया इव भास्करं गर्भमन्तर्दधाना वा दुरालोकमभूवपुः' इति पाण्डवचश्त्रेि ॥
શ્લેકાર્થ
શત્રુંજય પર્વતની નદી સગર્ભા યુવતીની જેમ શેભે છે. કોઈ પુણ્યશાળી કમલાક્ષિ પુણ્યવંત જીવને ગર્ભરૂપે ધારણ કરતી દુપ્રેક્ષ્ય લાગે છે, તેમ શત્રુંજયનદી અમૂલ્ય રત્નોને ધારણ કરતી અને સૂર્યના પ્રતિબિંબ વડે દુપ્રેક્ષ્ય લાગતી શોભી રહી છે. જે ૨૫
वृषभजिनगुणाधान्गायतः स्वक्वणस्या
नुगुणरणितवीणान्किनरेन्द्रागिरीन्द्रः । क्वचन विकचमोचाचारुपत्रंधवित्रै
रिव पवनविलोलैोजयामास मन्ये ॥२६॥
गिरीन्द्रः शत्रुजय ताधिपतिः क्वचन कस्मिन्नपि कदलोसदनलतामण्डपादौ प्रदेशे किंनरेन्द्रान्किपुरुषराजान् । उत्प्रेक्ष्यते-अहमेवं मन्ये वा । पवनविलालतिवेगान्दोलनचञ्चलीभूतविकचानां विकसितानां मोचानां रम्भाद्रमाणां चारुभिर्मनोहरैः पत्रः महद्दलीजयामास निरन्तरगाढबहुलगीतिजनितश्रमापनोदार्थ वीजयति स्मेव । कैरिव । धवित्रैरिव । यथा मृगचर्मव्यजनः कश्चित्पार्थिवादीन ग्रीष्मसमये स्बेदबिन्दुकितकायान् वीजयति । 'व्यजन तालवृन्तं धवित्रं मृगचर्मणि' इति हैम्याम् । किंनरेन्द्रान् किं कुर्वतः । वृषभजिनस्य विमलाचलकमलाशृङ्गारहारस्य युगादिदेवस्य गुणानामोधान गणान् गायतो गीतिगोचरीकुर्बतः । पुनः किंभूतान् । स्वक्वणस्य निजमधुर ध्वनेरनुगुणा अनुगतः सदृशीभूतो गुणो निःक्वणनरुपो यस्याः सा तादृशी रणिता वादिता वीणा विपञ्चिका यैस्तान् ॥
જેમ રાજાને મનહર વીંઝણુ વડે વીંઝવામાં આવે અર્થાત્ સ્વેદને દૂર કરવા માટે પવન નાંખવામાં આવે તેમ વિમલાચલના અલંકારરૂપ શ્રીયુગાદિદેવના ગુણેનું, પોતાના