________________
सर्ग १५ श्लो० २२-२३]
हीरसौभाग्यम्
विदलितदलमालाशालिलीलातमालः
कनकशिखरसंस्थस्तच्छविच्छन्नवर्मा । मुररिपुरिव पीतस्फीतवासोवसानो विहगविभुविहारी यत्र शत्रुजयेऽभात् ॥ २२ ॥
यत्र यस्मिन् श्रीशत्रुजयधात्रीधरे विदलिताभिर्विकसिताभिर्दलानां मरकतमणिगणाच्छिन्नच्छविच्छायानां पत्राणां मालाभिः श्रेणीभिः शालते शोभते इत्येवंशीलो यो लीलातमालः विद्याभृद्भिर्मानवैर्वाडा (?) कृते रोपितस्तापिच्छतरुः । अथ वा स्वयमेव कथंचिदुद्गतः विलासविधायकस्तमालद्रुमः अभावभौ । किंभूतस्तमालः । कनकस्य काच्चनर• चिते शिखरे शृङ्गे संतिष्ठते इति कनकशिखरस्थः । पुनः किंभूतः । तस्य कनकशिखरस्य छवियॊतिस्तया छन्नं व्याप्तं वम शरीर यस्य । क इवाभात् । मुररिपुरिव । यथा नारायणो भासते । किंभूतः। पीतं हारिद्रवर्ण स्फोतं मनोज्ञं वासो वस्त्रं वसानः परिदधानः। वस्ते इति वसानः । 'गुणिप्रायाणि वस्त्राणि भूषणानि तव प्रभो । वसानश्च दधानश्च सत्कािरि तिष्ठति ॥ इति भोजप्रबन्धे । पुनः किंभूतः । विहगानां पक्षिणां विभुः स्वामी गरुडस्तेन विहरति विचरतीत्येवंशोलः ॥
લેકાથી
જેમ પીતાંબર ધારણ કરનારા ગરૂડવિહારી વિષ્ણુ શેભે તેમ શત્રુંજય પર્વતના સુવર્ણના શિખર ઉપર રહેલું, સુવર્ણની કાન્તિથી વ્યાપ્ત અને વિકસ્વર પાંદડાઓથી સુશોભિત તમાલવૃક્ષ શેભે છે. જે ૨૨ છે.
उपरिपरिसरद्भिः पद्मरागाश्मगर्भ
स्फटिकघटितशृङ्गबातजातांशुपूरैः । अपि नभसि भुवीव ब्रह्मभूभानुपुत्री.
त्रिदशजलधिगानां यस्तनातीव सङ्गम् ॥ २३ ।। यः श्रीशत्रुजयशलः भुवि पृथिव्यामिव नभस्याकाशेऽपि ब्रह्मभूः सरस्वती, भानुपुत्री यमुना, त्रिदशजलधिगा गङ्गा, तासां सङ्ग संगमनं मेलनम् । त्रिवेणीसङ्गमित्यर्थः। तनाति करोतीव । कैः कृत्वा । उपरि नभोङ्गणे परिसरद्भिः परि समन्तात्प्रसरद्भिः पद्मरागा रक्तमणयः, तथा अश्मगर्भाः मरकतरत्नानि, तथा स्फटिकाः श्वेतमाणिक्यानि तैः कृत्वा । 'रत्नं वसुमतीमाणिक्यमपि' इति हैमीवृतौ । घटितानां नाकिना शिल्पिना वा संकल्पितानां श्रङ्गाणां शिखराणां वातावृन्दाजाताः प्रकटीभूता येऽशुपूराः किरणगणास्तैः कृत्वा । पद्मरागरुचिभिर्विरश्चिसुता सरस्वती हि कविसमये किंचिदणा वर्ण्यते । रुधिरप्रवाहस्य त्वस्या