________________
६३४
हीरसौभाग्यम्
[सर्ग १५ श्लो० २१-२१
विविधनवचिरत्नायत्नदत्तात्मरत्नै
निखिलमपि निहत्याकिंचनत्वं जनानाम् । मणिशिखरिणमद्रिीनवाकारिणं यो
बहु तृणमिव चक्रे किंपचानं वदान्यः ॥२१॥
अद्रिः श्रीशत्रुजयपर्वतः मणिशिखरिण रोहणाचलम् । 'श्रेणीवर्जनदुर्यशोनिविशित. व्रीडस्तु रत्नाचलः' इति नैषधे । तथा 'ये रत्नाचलवासिनो हि मनुजास्तेषां न रत्नोद्यमः' इति सूक्ते । यथा रत्नाचलस्तथा मणिशिखरी । तं बह धन यथा स्तात्तथा तृण तृणप्रायमकिंचित्करमिव चक्रे कृतवान् । किं कृत्वा । जानानां स्वाश्रितभविकलोकानां निखिलं समस्तमपि अकिंचनत्व दरिद्रभाव निहत्य मृलादुच्छेद्य । कैः कृत्वा । विविधानि नानाप्रकाराणि 'वन-वैडूर्य-लोहिताक्ष-मसाग्गल्ल हंसगर्भ-पुलक-सौगन्धिक-ज्योतीश्वर-अञ्जनअञ्जनपुलक-जातरूप-सुभग-अङ्क-स्फटिक-कर्केतन-मरकत-प्रवाल-इन्द्रनील-चन्द्रप्रभ' इति सिद्धान्तोक्तानि, 'पद्मराग-गरुडोद्गार-राजपट्ट-चन्द्रकान्त-सूर्यकान्त-माणिक्याद्यानि नवानि नवीनोत्पन्नानि चिरत्नानि चिरकालोदभूतानि । 'चिरत्नरत्नाचितमश्चित चिरात्' इति नैषधे । 'चिरत्नानि चिरकालजातानि' इति तद्वत्तिः । अयत्नदत्तानि प्रयासं विनैव प्रकटस्थितत्वेन खननाद्युपक्रममन्तरेण विश्राणितानि यान्यात्मनः स्वस्य स्वस्मिन्नुत्पन्नत्वेन निजस्यैव रत्नानि माणिक्यानि तैः । अद्रिः किंभूतः । वदान्यो दानशीलः । किंभूत' मणिशिखरिणम् । दीनां कृपणाम् । 'कृपाश्रये यः कृपणे पतत्रिणि' इति नैषधे । 'कृपणे दीने' इति तवृत्तिः । 'कृपणः कदयें दीने च' इत्यनेकार्थः । हस्ताभ्यां भालमास्फाल्य हा तात हा मातः इति वाच वाणी कारयतीत्येवंशीलम् । यदुक्तम्-'हादै वेति वचो विना न ददते वज्राणि वनाकराः' इति सूक्ते । तथा 'दैन्योक्त्या रोहणाद्रिः खरमुखरतर' पुष्करावर्तमेघाः' इति सोमसुन्दरसूरिकृतऋषभदेवस्तवे । तथा 'धिग्रोहणं गिरिं दीनदारि. यव्रणरोहणम् । दत्ते हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः॥' इति विक्रमादित्यादिभिरुक्ते । अत एव पुनः किभृतम् । किंपचान कदर्यम ॥
લેકાર્થ
દાનેશ્વરી શત્રુંજય પર્વત પિતાના વિવિધ પ્રકારના પદ્યરાગ, ચન્દ્રકાન્ત, સૂર્યકાન્ત આદિ નવીન રત્નો અને વજ, વૈર્ય આદિ ચિરરને કેઈપણ પ્રકારના પ્રયાસ વિના આપીને ભવ્ય જીવોની દરિદ્રતા દૂર કરીને, મનુષ્યો પાસે લમણે હાથ મૂકાવીને “હે તાત.. .....भात....' Aai नयन। मासावीने २रन आना। ४०७ रोडायसने तृणुप्रायः ગણતું હતું, જે ૨૧