________________
सर्ग १५ श्लो० १९-२०]
हीरसौभाग्यम्
त्रिदशशिखरी मेरुर्मुख्यः प्रकृष्टो येषु तादृशा अशेषाः समस्ता ये शैलाः पर्वतास्तेषां व्रजेन समूहेन विमलगिरीन्दोः श्रीशत्रुजयशैलशक्रस्य । उत्प्रेक्ष्यते-निजस्य शिखरौधाः श्रृङ्गगणाः 'निजस्य तेजः शिखिनः परश्शताः' इति नैषधे । प्राभृतत्वमुपदाभाव प्रापिताः । ढौकिता इत्यर्थः किंभूताः। रुप्यं रजतं रत्नानि मणयः अर्जुनं स्वर्ण तेषामङ्गं शरीरं येषां ते। रजतरन्नहेममया इत्यर्थः । किंभूतेन । त्रिदशशिखरिमुख्याशेषशैलव्रजेन । स्वस्माद्विमलशैलात्मनो भव उत्पत्तिर्येषां तादृशानां विभवानां शोभासंपदा भूम्ना बाहुल्येन । अभिभूति पराभव लम्भितेन प्रापितेन ॥
પ્લેકાર્થ
- શત્રુંજય પર્વતરૂપ રાજાના વૈભવથી પરાભવ પામેલા મેરૂ આદિ સર્વે પર્વતના સમૂહે રૂપાનાં, સેનાનાં અને રત્નનાં પિતપોતાનાં શિખરો જાણે વિમલાચલને ભેટણારૂપે આપ્યાં ન હોય! ! ૧૯ विमलशिखरिकुण्डा वल्लरीः शैवलाना
मुपरि बहलितानामुद्वहन्तो विभान्ति । प्रवसितदयितानां कामिनीनां कपोला
इव लुलदलकाङ्कः पाण्डिमानं दधानाः ॥२० ।। विमलशिखरिणः श्रीशgजयगिरेः कुण्डा जलस्थानानि विभान्ति शोभन्ते । किं. कुर्वन्तः । उपरि स्वसलिलोव॑भागे बहलितानां निच्छिद्रीभूतानां सान्द्राणां शवलानां शेवलानां वल्लरीमञ्जरिः । 'मञ्जरी वल्लरीश्च सा' इति हैम्याम् । उद्वहन्तो धारयन्तः । के इव । कपोला इव । यथा प्रवसिताः पथिकीभृताः परदेशं प्राप्ता ता दयिता भार्तारा यासां ताशीनां कामिनीनां विरहविधुरवधूनां कपोलाः गण्डा गल्ला राजन्ते । किंभूताः । लुलन्तः पतिव्रता व्रततया प्रियप्रवासवासरादारभ्य अबद्धत्वादुपरि पतन्तो गण्डस्थले मिलन्तः अलकाः केशा अङ्के उत्सङ्गे येषाम् । पुनः किं कुर्वाणाः। पाण्डिमान पाण्डुरभावं दधानाः। विरहे हि प्रायः प्रतिव्रतानां कपोला धवलीभवन्ति । यदुक्त नैषधे-'विरहपाण्डुकपोलतले विधुः' इति ॥
લેકાર્થ જે સ્ત્રીઓના પતિ પ્રવાસે ગયા છે તે વિરહિણી સ્ત્રીઓની ફીકાશને ધારણ કરતા કેશયુક્ત કપોલે જેમ શોભે તેમ વિમલાચલના જલંકડો જલ ઉપર રહેલી નીરંદ્રશેવાसो १3 शाने छे. ॥ २० ॥ हि० सौ० ८०