SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सर्ग १५ श्लो० १६-१७ ] सौभाग्यम् ६३१ · શિખર ઉપર રહેલું ચંપક વૃક્ષ ભ્રમરોની હારમાલાથી અને વિકરવર પીતવણીય પુષ્પાના સમૂહથી શે।ભી રહ્યું છે. ૫ ૧૬૫ अपि धृतसिन्धुर्नागरङ्गी सदुर्गः समुषितकालः केकयानं दधानः । धृतशशधरचूडो नीरमुङ्गीलकण्ठः शिव इव घनयानो भाति मृत्युंजयाद्रिः ॥ १७ ॥ अद्रिः शत्रुंजयशैलः शिव ईश्वर इव भाति । किंभूतः । धृता कलिताः सुरा विविधस्थानस्थातारोऽनेक कपर्दियक्षप्रमुखा अधिष्ठातारो देवाः, तथा सिन्धवः शत्रुंजया ऐन्द्रीसाभ्रमती - ब्राह्मी प्रमुखाश्चतुर्दश महानद्यो येन | शिवस्तु श्रितदेवनदीको गङ्गाधरत्वात् । पुनः किंभूतः । नागरङ्गा वृक्षविशेषा 'नारङ्गा' इति लोके प्रसिद्धाः सन्त्यस्मिन् । पक्षे नागेषु भुजंगमेषु विषये रङ्गः स्नेहोऽस्त्यस्येति । 'पाणौ फणीन् भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमुच्चैः । कोटीरबन्धनधनुर्गुणयोगपट्टव्यापार पारगममुं भज भूतभर्तुः ॥' इति नैषधे । पुनः किंभूतः । सह दुर्गेर्विषमस्थानकैः कोट्टैर्वा वर्तते यः । पक्षे पार्वतीयुक्तः अर्धाङ्गत्वात् । पुनः किंभूतः । सह वृषेण धर्मेण । 'पुण्यराशिः श्रिय-' इत्यभिधानत्वात् । पक्षे वृषभेण वाहनबलीवर्देन वर्तते यः । तथा मुषितो निर्दलितः कालः कलिर्यमो वा अजरामर पददायकत्वात् ! पक्षे कालनामा दैत्यो येन । पुनः किंभूतः । केकिनां मयूराणां यानमितस्ततो गमनम् । पक्षे स्वामिकार्तिक च दधानः । पुनः किंभूतः । धृतः, कलितः शशधरश्चन्द्रो यया तादृशी चूडा शिखरशिखा अभ्रंकषत्वात् मस्तकोपरितनभागश्च येन । पुनः किंभूतः । नीरमुचा मेघेन तद्वच्च नीलः कृष्ण कण्ठः कंधरा गलनालं यस्य । 'दूधदम्बुदनीलकण्ठताम' इति नैषधे राजगृद्दवर्णनम् । अम्बुदेन मेघेन नीलः कण्ठः उपत्यकाभागों ग्रीवा चेति उपत्यकायाः कंधरेति प्रतिपादनम् । 'यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव' इत्यपि नैषधे । पुनः किंभूतः । घनानां मेघानां यानानि गमनानि संचारा यत्र । पक्षे घनवाहन इत्यभिधानः । यानशब्देन वाहनम् । पुनः किंभूतः । मृत्युं मरणं यम जयतीति मृत्युंजयो जन्मजरामरणापहारक: सिद्धिदातृत्वात् । पक्षे मृत्युंजयो नाम्ना || Àાકાથ શત્રુંજય પર્વત ઈશ્વરની જેમ શેાલે છે. પંત અધિષ્ઠાયક દેવા, શત્રુ ંજયી, સાખરમતી, સરસ્વતી આદિ ચૌદ મહાનદીને ધારણ કરનારા છે, ઈશ્વર મસ્તક ઉષ સુરગંગાને ધારણ કરનાર છે. પંત નારંગીનાં વૃક્ષાથી સહિત છે, ઈશ્વર નાગા પ્રત્યે अनुरागी छे. यवत दुर्ग (अट) सहित छे, ईश्वर हुर्गा (पार्वती) सहित छे. पर्वत ધમ સહિત છે, ઈશ્વર વૃષભના વાહનવાળા છે. પંત અજરામર પદનેા દાયક હોવાથી
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy