________________
सर्ग १५ श्लो० १४-१५]
हीरसौभाग्यम्
६२९
त्रिदिवसदनमार्गोत्सङ्गरगत्तरङ्ग
मणिचितचयचञ्चद्रोचिषां संचयैर्यः । धुनिशमिह निजाङ्कस्थायुकानां चिकीर्षुः किमु शरणधुरीणः शाश्वतं सुप्रभातम् ॥ १४ ॥
यः शत्रुजयाद्रिमणिभिराभङ्करप्रभङ्करादिरत्नश्चिता व्याप्तो रत्ननिर्मितो यश्चयो वप्रः प्राकारस्तस्य चञ्चतां दीप्यमानानां रोचिषां कान्तीनां सचयैः संदाहः कृत्वा । उत्प्रेक्ष्यते- इह विश्वे द्यनिश नित्यं निजस्यात्मनः अडके उत्सडे स्वसमीपे वा स्थायका निवसनशीलानां स्वापत्यानामिव भविकजनानां शाश्वतमनश्वरं सुप्रभातं शोभनालोकं सिद्धशैलत्वाच्चिकीर्षुः कर्तुमिच्छुरिव । किंभूतः संचयैः । त्रिदिवे स्वर्गे सदनं गृहम्, अथ वा त्रिदिवं द्यौरेव सदन येषां ते देवास्तेषां मार्गः पन्था आकाशस्तस्योत्सने क्रोडे रङ्गन्तः प्रसर्पन्तः तरङ्गाः प्रसारा येषां तैः । यः किंभृतः। शरणे स्वसमीपागतरक्षणे धुरीणो बलवान वत्सलः आश्रितपालकः शरणागतवज्रपञ्जरो वा ॥
લેકાર્થ
આકાશમાં જેનાં કિરણે પ્રસરી રહ્યાં છે તેવા શત્રુંજય પર્વતના રત્નમય કિલ્લાની દેદીપ્યમાન કાંતિના સમૂહથી જાણે પિતાની મધ્યમાં અર્થાત્ વિશ્વની મધ્યમાં નિરંતર ભવ્ય જીવોને શાશ્વત અને સુંદર બનાવવા માટે સિદ્ધગિરી શરણાગત વત્સલની જેમ २। न य ! ॥ १४ ॥
घनलसदुपकण्ठा रुक्मरूप्यद्विभागा ___ पतदुपरिक्षराम्भा भाति कुत्रापि भित्तिः । तनुरिव पुरदस्याः स्यूतशैलाङ्गजाङ्गा श्रितशितिगलनाला स्वःस्रवन्तीं श्रयन्ती ॥ १५ ॥
यत्र शत्रजयाद्रौ कुत्रापि कस्मिंश्चित्प्रदेशे कौतुकाकलितशिल्पिकल्पिता भित्तिः कुडयं भाति दीप्यते राजते. वा । किंभूता । घनेन मेघेन कृत्वा । 'गिरौ वर्षन्ति माधवाः' इति वचनात् । लसत् शोभमानमुपकण्ठं कण्ठस्य समीपमुपकण्ठं समीप वा यस्याः । पुनः किंभूता । रुक्म स्वर्ण रूप्य रजत तयोद्वौं पूर्वापरौ भागावंशप्रदेशौ यस्याः । एकस्मिन् भागे स्वर्णेन, अपरस्मिन् भागे च रजतेन घटिता इत्यर्थः । पतन्निर्माणविशेषादागच्छदुपरि शिरःप्रदेशे झरस्य शिखरनिर्झरस्य अम्मः पानीय यस्याः । केव भाति । तनुरिव । यथा पुरदस्योरीश्वरस्य तनुः वपुर्यष्टी शोभते । किंभूता । घनवन्मेघ इव नीलत्वाल्लसत्कण्ठस्य समीप यस्याः । पुनः किंभूता। स्यूत प्रोत्तम् अर्धाङ्गीकरणात् शैलस्य हिमाद्रेरङ्गजाया