SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सर्ग १५ श्लो० ८-९ ] हीरसौभाग्यम् ६२५ जलधौ सागरे भवनं गृहं यस्य स वरुणः । 'वरुणस्त्वर्णव मन्दिरप्रचेताः' इति हैम्याम् । जम्भस्य दानविशेषस्य अरातिः शत्रुरिन्द्रस्तयोः सारङ्गचक्षुषी प्रिये तादृश्यौ दिशौ प्रतीची प्राच्यौ । 'वरुणगृहिणी माशामासादयन्तममुं रुची -,' तथा 'निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित' इति पदद्वयमपि नैषधे । तयेार्दिशोरवनिधरौ पर्वतौ अस्ताचलोदयाद्री तये।र्मूर्धानौ मस्तकशिखरे आलम्बेते आश्रयेते तादृशौ बिम्बौ मण्डलौ ययोस्तादृशौ पुष्पदन्तौ शशिभाकरौ । पुष्पदन्तौ पुष्पवन्तावेकोत्तया शशिभास्करौ' इति हैम्याम् । दिनादौ पूर्णिमादिके क्वापि प्रातःकाले विभातः । उत्प्रेक्ष्यते - एतस्य विमलगिरेः शत्रुंजयाद्रे रमायाः लक्ष्म्याः रजतेन रूप्येण तथा कनकेन काञ्चनेन कृत्वा राजन्तौ रूप्य स्वर्णनिर्माणेन शोभमाना दीप्यमानौ कर्णपूरौ श्रवणौ पूर्येते आभ्यामिति कुण्डले इव ॥ શ્લાકા જેમનુ' ઘર સમુદ્ર છે તેવા વરૂણ અને ઇન્દ્રની પ્રિયતમાએ પશ્ચિમ દિશા અને પૂર્વ દિશાના પૂર્વાંચલ અને પશ્ચિમાચલનાં શિખર ઉપર જેમનાં ખિમ રહેલાં છે તે સૂર્ય અને ચન્દ્ર, દિવસના પ્રારંભે વિમલગિરિની લક્ષ્મીનાં રૂપ્યમય અને સુવણુ મય કુંડલાની જેમ શેલે છે. ૫ ૮ ૫ निखिलभुवन भारोद्धार निर्वेदभाजा जगपरिवृढेनानेकविज्ञप्तिकाभिः । भरभरणधुरीणोऽशेषनीरेशने मेः किमयमिह महीघ्रः कारितो विश्वकर्त्रा ॥ ९ ॥ भुजगानां नागानां परिवृढेन स्वामिना शेषनागेन अनेकाभिर्विविधप्रकाराभिर्विज्ञप्तिकाभिरञ्चलप्रसारेण दीनतादर्शनमुखाङ्गुलीप्रेक्षणचटुभाषणप्रमुखविज्ञपनैः कृत्वा । उत्प्रेक्ष्यतेविश्वकर्त्रा जगन्निष्पादकेन धात्रा पार्श्वे इह जगति पृथिव्या अयं महीघ्रः एष शत्रुंजयाद्रिः । किं कारितः । निर्मापित इव । किंभूतेन । निखिलस्य समग्रस्य भुवनस्य भूलोकस्य भारो वीवधस्तस्योद्धारेणोद्वहनेन कृत्वा निर्वेद मनसि विषाद खेद वा भजतीति तेन । अयं किंभूतः । अशेषायाः समस्ताया नीराणां जलानामीशः स्वामी समुद्रः । 'स्रोतोवार्नदीशः सरस्वान्' इति हैम्याम् । नेमिश्चक्रधारावद्यस्याः परिधीभूतो यस्यास्तादृश्याश्चतुरर्णवपर्य न्तपृथिव्या भरस्य भरणे धारणे । 'डुभृञ् धारणपोषणयेाः' इत्यस्य प्रयोगः । धुरीणौ धुर्ये धौरेयः ॥ શ્લેાકાથ નાગાથી પરિવરેલા શેષનાગે, સમસ્ત જગતના ભાર વહન કરવાથી શ્રમિત થયેલા हि० सौ० ७९
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy