________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० ३०१-३०२
तद्गङ्गागिरिराजयत्पिबजनानुर्व्याः स्तुवन्त्या मुहुः -
स्वर्गे स्वर्गिमृगीदृशो निजजनि निन्दन्ति मन्दाशयाः । मोहात्प्राक्परिकल्पितप्रियतमार्धाङ्गानुषङ्गादिमां श्रोतुं क्वापि न गन्तुमीश्वरतया स्वं शैलजाक्रोशति ॥ ३०१॥
सैव कीर्तिप्रथैव गङ्गा मन्दाकिनी तस्या गिरिराजो हिमाचल एवोत्पत्तिस्थानं यः सरिस्तं पिबन्ति सादर पश्यन्ति तादृशान जनान् भूमण्डलजन्मनो लोकान मुहुर्वारंवार स्तुवन्त्यः प्रशंसन्त्यः श्लाघमानाः स्वर्गिमृगीदृशः सुराङ्गनाः स्वर्गे देवलोके निजजनिं स्वावतारं निन्दन्ति तद्दर्शनाभावाद्र्हन्ति । किंभूताः मन्दाशयाः प्रभोरन्यभुवनस्थायुकत्वेन दर्शनमलभमाना अत एव मन्दीभूतमनसो जडभावमुपगताः तथा मोहादज्ञानात् । 'सोऽह
मायितं मोहात' इति चम्प्रकथायाम्। मोहशब्देनाज्ञानम् । अथ च माहात्प्रेमातिरेकात्प्राक प्रथमं परिकल्पितः कृतः प्रियतमस्य अतीष्टस्य भर्तुश्च हरस्यार्धाङ्गेन सामिशरीरेण सममनुषङ्गः सबन्धः तस्मात्स्वार्धशरीरमीश्वराने स्यूतमतोऽर्धाङ्गी गौरीति प्रसिद्धिः । तत्कारणादिमां सरिकीर्ति वापि श्रोतु कर्णगोचरीकर्तु नेश्वरतया न समर्थत्वेन स्त्रमात्मानं शैलजा पार्वत्यपि स्वमोहमाक्रोशति धिक्कुरुते । हा मया अविचारचतुरया वृथैव हाराङ्गेन स्वाङ्ग स्यूतम्, गीतिप्रीतिमत्तापि क्वापि हरेण विना हन्तु न शक्तेति ॥
બ્લેકાથ
કીર્તિ રૂપી ગંગાના ઉત્પત્તિ સ્થાનરૂપ હિમાચલ સમાન શ્રી હીરવિજ્યસૂરિનાં જેણે આદરપૂર્વક દર્શન કર્યા છે તેવા મનુષ્યની વારંવાર પ્રશંસા કરતી સ્વર્ગલોકની દેવાંગના ઓ, ગુરુદર્શનના અભાવે પિતાની જાતને ધિક્કારતી હતી. “મેહના અતિરેકથી પ્રિયતમઈશ્વરના અર્ધ અંગમાં યૂત બનેલી એવી હું (પાર્વતી) ઈશ્વરનાં અર્ધ અંગરૂપે હોવાથી આચાર્યના ગુણ સાંભળવા માટે શક્તિશાળી નથી” આ રીતે પાર્વતી પણ પિતાની જાતને ધિક્કારતી હતી. ૩૦૧ છે
यत्कीर्ति नरनिर्जरोरगबधूप्रारब्धनूतस्तुति
श्रुत्वास्यामनुरागितां त्रिभुवने विभ्रत्यदभ्रां हृदा। शर्वाणीरमणस्तदश्रवणतो मूर्धस्थसिद्धापगां
कुर्वाणां बधिरत्वमुद्धररवैस्तारङ्गजैर्गर्हते ॥ ३०२ ॥ शर्वाणीरमणः पार्वतीपतिहीरस्तस्याः सूरिकीर्तेरश्रवणतः अनाकर्णनात्तारङ्गः तरङ्गाणां समूहास्तारङ्गाः, तारङ्गभ्यो जायन्ते स्मेति तारङ्गजास्तैः। यथा पद्मसुन्दरकविकृतभारतीस्तधे'धार वार तारतरस्वरनिर्जितगङ्गातारङ्गाः' इति । उद्धररथैरत्युद्धरध्वनिभिर्बधिरत्व