________________
सर्ग १४ श्लो० २९९-३०० ]
हीरसौभाग्यम्
६१५
स्वस्यात्मनः श्रुतीनां कर्णानां सहस्रफणत्वात्कर्णबाहुल्यस्य निर्मितौ विधाने मन्दमलस मूर्ख वा शतानन्द जगत्कर्तारमात्मना स्वेनैव निनिन्द पर्षदि गर्हणामकरोत् ॥
શ્લોકાથ
હીરવિજયસૂરિજીના ગુણે સાંભળવામાં રસિક એવા સૂર્ય, ચન્દ્ર, દિવસ તથા રાત્રિ કરવાના બહાને ગુણેને સાંભળવા માટે જ જાણે આકાશમાં પર્યટન કરતા ન હોય ! આચાર્યના ગુણોને પિતાના કાનના અભાવે નહીં સાંભળવાથી ઉદ્વેગ પામેલે નાગને સ્વામી નાગેન્દ્ર, પિતાના કાન નહીં બનાવવા બદલ આળસુ એવા બ્રહ્માની અવગણના કરતા હતા ? | ૨૯૯
विद्मो मन्दरकंदरैः प्रतिरवैः प्रोत्साहिताः किंनराः ___ यत्कीर्ति युवतीकृतानुवदनाः प्रीतेरुपावीणयन् । सिद्धा रोधसि सिद्धसिन्धुसुदृशो योषानुषङ्गा जगू
रङ्गतुङ्गतरङ्गसङ्गजरवैः स्थानं ददत्या इव ॥ ३०० ॥ युवतीमिः स्वकान्ताभिः किंनरीभिः कृतमनुवदनं समं गानं येषां तादृशाः किंनराः पुरुषाः प्रीतेः स्वतन्त्रानन्दाद्यत्कीर्तिमुपावीणयन् वीणया वादनपूर्वकं गायन्ति स्म तत्र वयमेव विद्मो जानीमः । उत्प्रेक्ष्यते वा-मन्दरकंदरैर्मेरुदरीभिः प्रतिरवैर्जगजनगानतारतरध्वनिप्रतिध्वनितः कृत्वा प्रोत्साहिता गातुमुत्कण्ठां प्रापिता इव । 'मन्दरकंदरासु शयितानुत्थापयन्किनरान्' इति चम्पूकथायाम् । पुनः सिद्धा देवविशेषास्ते सिद्धानां सिन्धुसुदृशः समुद्रपत्न्या नद्या एतावता गङ्गायाः । 'सिद्धस्वःस्वर्गिखापगाः' इति हैम्याम् । रोधसि तीरे जगुर्गायन्ति स्म । उत्प्रेक्ष्यते-रङ्गन्तश्चलन्तो ये तुङ्गा अत्युच्चतमास्तरङ्गाः कल्लोलास्तेषां परस्पर सङ्गाजाता ये रवाः कोलाहलाकलितगम्भीरधीरध्वनयस्तैः कृत्बा स्थानं ददत्याः स्वर पूरयन्त्या इव । जिगासतां हि प्रथम स्थानं दीयते, रागाद्यालापः वादित्रादिध्वनिश्च विधीयते, तत्स्थानम्, तदनु च गायनो गायति इति गीतिरीतिः । सिद्धाः किंभूताः । योषानुषङ्गाः स्त्रीणामनुषङ्गो येषाम् । सस्त्रीका इत्यर्थः ॥
લેકાર્થ જાણે આચાર્યને ગુણે ગાઈ રહેલા જગતના મનુષ્યના અવાજના મેરુપર્વતની ગુફામાં પડેલા પડઘાઓથી ગુરુગુણ ગાવામાં પ્રોત્સાહિત બનેલા કિનારે કિનારીઓની સાથે વીણાવાદના પૂર્વક કીર્તિનાં ગીત ગાતા હતા. સ્વર્ગના દેવ દેવીઓની સાથે આકાશગંગાના હીરે મનોહર અને ઉછળતા તરંગોના અવાજથી જાણે સ્થાન આપતા ન डाय, ते रीते गुणगान ४२ता हुता. ॥ 3०० ॥