________________
६१४
हीरसौभाग्यम् [ सर्ग १४ श्लो० २९७ - २९९
अक्ष्णामिव । यथा मम नयनानां दशशती वर्तते तथा श्रुतीनामपि दशशतीं कुरु । कस्मिन् सति । नरेहरगुरोर्भूधनोऽब्बर साहिस्तस्य बोधनं प्रतिबोधविधानं तत्प्रमुखं चरितं चरित्रं तस्मात्प्रोद्भूतां प्रकटां जातां कीर्तिप्रथां यशोविस्तारं प्रीत्या प्रमोदेनाकर्ण्य श्रुत्वा । अखिले समस्तेऽपि विष्टपे विश्वे शिरोविघूर्णनपरे चेतश्चमत्कारितया स्वमूर्धविधूननतत्परे जाते सति । कीर्तिप्रथां किं क्रियमाणाम् । रसाद्रागात् । रसो रागेऽनेकार्थ्याम् । स्वेषामात्मनां कान्ताभिः स्त्रीभिर्युतैः सहितैः सुरसहिता ये असुरा दानवा उरगा नागा नरा मनुष्यास्तेषां व्रातैर्वृन्दैः सानन्दमानन्दककलितं यथा स्यात्तथा श्रोतॄणां श्रोत्रेषु कर्णेषु रसायनसदृशैर्घनैर्निबिडैस्तारतरैर्वा रवैर्जगीयमानामतिशयेन गीतां नरव्रातैः । उत्प्रेक्ष्यतेविश्वत्रयस्य त्रैलोक्यस्य चित्रकृद्भिरतिशयाश्चर्य विधायिभिर्गुणानां गणैः कर्णान्तिकं आगत्य श्रवणसमीपे समेत्य मातुं योग्य मेयो न मेयेोऽमेयेा गलितावधिसमयं यावद्गीतेर्गानस्य गोचरतां नेतु प्रापयितुं प्रणुन्नैरिव प्रेरितैरिव ॥ युग्मम् ||
શ્લાકા
પોતાની સ્ત્રીએ સહિત દેવ, અસુર, નાગ અને માનવાના સમૂહો વડે મધુર સ્વરે ગવાતા શ્રોતાજનને રસાયણ સમાન અને ત્રણે જગતને આશ્ચર્યકારી સેવા આચાર્યદેવના ગુણા સાંભળીને, તેમજ અકબર ખાદશાહને પ્રતિધ આદિ આચાય દેવના અદ્ભુત ચરિત્રથી ઉત્પન્ન થયેલી કીર્તિ કથાના વિસ્તાર તેમજ ત્રણે જગતના મસ્તકને ડાલાવી નાખે તેવા યશના વિસ્તારને પ્રેમપૂર્ણાંક સાંભળવા માટે ઉત્સુક બનેલા સ્વર્ગની અમરાવતીમાં રહેલા ઇન્દ્રે બ્રહ્મા પાસે પોતાનાં હજાર નેત્રોની જેમ હજાર કાનની યાચના કરી ? વિશ્વને આશ્ચર્યકારી આચાર્ય શ્રીના ગુણા કાનમાં નહી' શમાવવાથી જ જાણે ગીતારૂપે કાનની પાસે રહેલા ન હાય ! ।। ૨૯૭ ! ॥ ૨૯૮ ૫
सूर्याचन्द्रमसौ पुनर्दिनतमी निर्माणदम्भादिदं शुश्रूपारसिकायितानिशमनोवृत्ती इव भ्राम्यतः ।
भर्ता भागभृतां तदाश्रवभवनिर्वेद मेदस्विहमन्दं स्वश्रुतिनिर्मितावपि शतानन्दं निनिन्दात्मना ॥ २९९ ॥
पुनरपरार्थे सूर्याचन्द्रमसौ भानुविधू दिनानां तमीनां रात्रीणां निर्माणं करणम् । य दिनान् चन्द्रो रात्रीः कुरुते । तस्य दम्भात्कपटाद्भ्राम्यतः पर्यटतः । उत्प्रेक्ष्यते - इदं शुश्रूषायां कीर्तिप्रथां श्रोतुमिच्छायां रसिकवदाचरिते अनिशं निरन्तरं मनसो वृत्तिर्व्यापारा ययास्तादृशाविव । अपि पुनस्तदाश्रवणेन भवन्नुत्पद्यमानेो यो निर्वेदः खेदस्तेन मेदस्व मेदुर पुष्टं भूतं हृत हृदयं यस्य तादृशो भागभृतां नागानां भर्ता स्वामी नागेन्द्रः