________________
सर्ग १४ श्लो० २९६-२९८]
हीरसौभाग्यम्
६१३
सरिर्दीक्षयति स्म सक्षणमिहानेकान्महेभ्याङ्गजा'न्मूर्तीनां च सहस्रशो भगवतां चक्रे प्रतिष्ठाः स्वयम् ।
एकच्छत्रमिव व्यधत्त भुवने स्वायंभुवं शासनं प्रज्ञाधःकृतगीष्पतिः क्षितिपते राज्यं पुरोधा इव ।। २९६ ॥
सुरिहोरविजयगुरुरिहास्मिन्महीमण्डले सक्षणं समहोत्सव यथा स्यात्तथा अनेकान् बहून महेभ्याङ्गजान व्यवहारिनन्दनान्दीक्षयति स्म प्रव्रानयामास । च पुनः स्वयमात्मना सुरिः सहस्रशो बहुसहस्रसंख्यानां भगवतां तीर्थकृतां मूर्तीनां प्रतिमानां प्रतिष्ठाचके । पुनर्भुवने विश्वे स्वायंभुव जैन शासनमेकच्छत्रमद्वितीयातपत्रमिव व्यधत्त विदधे । किंभूतः । प्रज्ञया स्वबुद्धया अधःकृतस्तिरस्कृतो गीष्पतिवृहस्पतिये न । क इव । पुरोधा इव । यथा पुरोहितो बुद्धिमत्तया मन्त्रविद्यादिशक्तिमान क्षितेः पतेः स्वनृपस्य मन्त्रतन्त्रादिशत्वया राज्यमेकच्छत्र विधत्ते सोऽपि प्रतिभापराभूतपुरुहूतसुरिः स्यात् ॥
કાથ
જેમ પુરોહિત મંત્રતંત્રાદિ શક્તિ વડે પિતાના રાજાના રાજ્યને એકછત્રીય બનાવે તેમ પોતાની બુદ્ધિ વડે બૃહસ્પતિને પણ તિરરકાર કરનારા જગદ્ગુરુ શ્રી હીરવિજયસૂરિજીએ પ્રતિબંધ કરીને અનેક શ્રેષ્ઠીપુત્રોને મહોત્સવ પૂર્વક દીક્ષિત બનાવ્યા, હજારે જિનબિંબની પ્રતિષ્ઠા કરાવી, તેમજ જગતમાં જૈનશાસનને એકછત્રીય સામ્રાજ્ય मनाल्यु. ॥ २०६॥
सानन्दं ससुरासुरोरगनरवातैः स्वकान्तायुतैः
श्रोतृश्रोत्ररसायनैर्धनरवैर्जेगीयमानां रसात् । तद्विश्वत्रयचित्रकृद्गुणगणैरागत्य कर्णान्तिकं
गीते!चरताममेयसमयं नेतुं प्रणुनैरिव ॥ २९७ ॥ सूरे धनबोधनादिचरितप्रोद्भूतकीर्तिप्रथां
प्रीत्याकर्ण्य शिरोविघूर्णनपरे जातेऽखिले विष्टपे । श्रोतुं सोत्सुकमानसा दशशतीमक्ष्णामिवाखण्डलः
कर्णानाममरावतीविरचितावासाद्बणीते विधेः ॥ २९८ ॥ आखण्डलः पुरंदरः अमरावत्यां स्वनगा विरचितः कृत आवासो गृहं येन ताशा. द्विधेर्विधातुः सकाशात् कर्णानां श्रवणानां दशशतों सहस्र वृणीते याच तीव । केषामिय।