________________
६०८
हीरसौभाग्यम्
[सर्ग १४ श्लो० २८५-२८७
શ્લોકાઈ કઈ એક સમયે હીરવિજયસૂરિજીએ અને વિજયસેનસૂરિજીએ ચાતુર્માસિક સ્થિરતા રાધનપુર નામના નગરમાં કરી. તે જાણે જંબુદ્વીપમાં બે સૂર્યો આવીને રહ્યા ન હોય!
છે ૨૮૫ છે श्रीमत्सूरिपतिः प्रसन्नहृदयः सन्भानुचन्द्राभिध
प्राज्ञेन्दोरथ वाचकाहयपदं दत्ते स्म वाचैव सः। संस्थानोरतिदूरतोऽपि कुमुदां पडन्तेरिव ज्योत्स्नया
प्रोद्यत्पार्वणशर्वरीवरयिता प्रोज्जृम्भतावैभवम् ॥ २८६॥ अथ राजधान्यपुरागमनचतुर्मासकस्थितिकरणानन्तरं प्रसन्नं शत्रुजयकरमुक्तिसत्कपातिसाहिफुरमानप्रेषणेन कृत्वा प्रसादोपेतं हृदयं मनो यस्य तादृशः स जगद्गुरुबिरुदतया ख्यातः श्रीमत्सरिपतिः श्रीहीरविजयसुरिरतिदूरतो लाभपुरे लाहोरनगरे साहिपाश्वे संस्थास्नोः स्थितवतोऽपि भानुचन्द्र इत्यभिधा नाम यस्य तादृझस्य प्राज्ञेन्दोविबुधविधोः प्रज्ञांशस्य वाचक इत्याद्वयं नाम यस्य तादृशं पदम् । उपाध्यायपदमित्यर्थः । दत्ते स्म । कया । वाचा । कथमेव । वचनमात्रणेव न तु वासक्षेमपूर्वमिति । क इव । प्रोद्यत्पार्वणशर्वरीवरयितेत्र । यथा उदयं प्रामुवन पूर्णिमासंबन्धी शर्वर्या निशाया वरयिता भर्ता अतिशयेन दूरतोऽपि भूमण्डलकमलाकरमध्ये गगनापेक्षया क्षोणी दूरस्थायिनी । कुमुदा कैरवाणां पङक्तेः श्रेण्या ज्योत्स्न्या चन्द्रिकयेव प्रोज्जृम्भताभवं विकाशभावलक्ष्मी दत्ते॥ इति भानुचन्द्रस्योपाध्यायपदम् ॥
શ્લેકાર્થ રાધનપુરમાં ચાતુર્માસિક સ્થિરતા કર્યા બાદ બાદશાહ પાસે યાત્રાવેરો રદ કરાવવાથી પ્રસન્ન થયેલા જગદ્ગુરૂ હીરવિજયસૂરિજીએ અતિદુર લાહેરનગરમાં રહેલા પંડિતશ્રી ભાનુચન્દ્રજીને પિતાની આજ્ઞાથી ઉપાધ્યાયપદ અર્પણ કરાવ્યું. અભ્યદય પામેલે પૂર્ણિમાને ચન્દ્ર અતિક્રુર હોવા છતાં પણ ચન્દ્રિકા વડે કુમુદની પંક્તિને વિકસ્વર થવાની શોભા અર્પણ નથી કરતો ! છે ૨૮૬ છે
विजयसेनविभोर्हदि दर्शनं वसुमतीकमिता चकमे क्रमात् । विदलिताखिललोकतमस्ततेः शुचिरुचेश्चलचचरिवाचिरात् ॥ २८७ ॥
___ क्रमादनुक्रमेण हीरविजयसरिभ्यां भानुचन्द्रस्य वाचकपदं प्रदत्तं तदाकर्णनानन्तरं वसुमतीकमिता भूमीपतिरकब्बरसाहिः हदि मनोमध्ये विजयसेनमानो विभोर्गुरोर्दर्शन