________________
६०६
सौभाग्यम्
[ सर्ग १४ श्लो० २८१-२८३
ફરમાન આચાર્ય દેવને મેાકલાવ્યું, તે હંસની જેમ સૂરિજીનાં કરકમલને અલંકૃત કરનારું અન્યું. ॥ ૨૮૧ ॥
यः पूर्वं कलिकालकेलिकलनालीलालयश्रीजुषां म्लेच्छक्षोणिभुजां वशंवदतया जज्ञे नृणां दुर्लभः । तिग्मज्योतिरखण्डचण्डिममहः संदोहदूरीकृत
ज्योत्स्नारम्भविभावरीशविभवः सौगन्धिकानामिव ॥ २८२ ॥
सौवर्णेन ततो बभूव भविकैर्लभ्योऽत्र गोशीर्षवजातः साधिकरूपकेण तदनु प्राप्यः कथंचिज्जनैः । साहिश्रीमदकब्बरेण यवक्षोणीभुजा संमदा
त्सोऽपि श्रीविमलाचलो मुनिमणेश्चक्रे शयालुः शये ॥ २८३ ॥
यः श्रीशत्रुंजयशैलः पूर्व प्रथमं म्लेच्छानामागमनसमये म्लेच्छक्षोणिभुजां यवनपातिसाहीनां वशंवदतया आयत्तत्वेनाधीनभावेन यात्रिकजनानां दुर्लभो दुःप्रापो जज्ञे जातः । पूर्व म्लेच्छा हि चढितु यात्रामपि कर्तुं न ददुः । किंभूतानाम् । कलिकालस्य कलियुगस्य केलिकलयायै कोडाकरणार्थं लीलालयः क्रीडासदन तस्य श्रियं जुषन्ते भजन्ते । केषामिव दुर्लभः । सौगन्धिकानामिव । यथा तिग्मज्योतिषो ग्रीष्मभानोर - खण्डोऽविच्छिन्नो निस्तुषो वा चण्डिमा अतितीव्रता यत्र तादृशेन महसां भूयसः प्रतापानां संदोहेन समुदायेन दूरीकृतो निरस्ता ज्योत्स्नां चन्द्रिकाणामारम्भोऽभ्यु दयो यस्य तादृशस्य विभावरीशस्य चन्द्रमसः विभवः शोभाभरोऽत्र कहाराणां दुलभो भवेव । कहार चन्द्रविकाशि । यथा नैषधे- 'कहारमिन्दुकिरणा इब हासभासम्' इति । 'सौगन्धिकं तु कहारम्' इति हैम्याम् । ततोऽप्राप्तेरनन्तर कियता कालेनात्र काले भूमौ वा सौवर्णेन सुवर्णटङकेन । सुवर्णविकारः सौवर्ण तेन 'सोठइयो' इति लोकप्रसिद्धेन । 'दीनारेण' इति पाठो वा । भविकैर्यात्रिकजनैलभ्यः प्राप्यो बभूव । किंवत् । गोशीर्षवत् । यथा चन्दन सौवर्णन स्वर्णमूल्येन लभ्यते, तदनु हेमटङकेन प्राप्तेरनन्तर' पञ्जमुद्रिकाभिर्महमुदीभिः, तदनु च कथंचिन्महत्कष्टेन विज्ञप्तिभिः साधिकरूपकेण तिसृभिर्मुद्रिकाभिः कृत्वा कथंचिज्जनैः प्राप्योऽभूत । सोऽप्येवंविधदुष्प्रापोऽपि श्रीविमलाचलः श्रीशत्रुंजय पर्वतः यवनक्षोणीभुजा मुद्गलभूमण्डलाखण्डलेन पातिसाहिना श्रीमता चतुर्दिक्चक्रलक्ष्मीवता अकब्बरेण मुनिमणेः श्रीहीरविजयसूरेः शये शयालुः पाणौ स्थाता चक्रे । गुरुकरकमलवर्तीकृत इत्यर्थः । कस्मात् । संमदाद्गुरूपरि गुरुप्रीत्या ॥
શ્લાકા
સૂર્યાંનાં તીક્ષ્ણ અને પ્રચંડ કરણાથી દૂર કરાયેલા ચન્દ્રના વૈભવની પ્રાપ્તિ જેમ