SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ६०४ हीरसौभाग्यम् [सर्ग १४ श्लो० २७८-२७९ प्रालेयेन खिलीकृते शिखरवत्प्रालेयभूमीभृतः शीताति प्रविषह्य बस्त्रवियुजां संवर्तरात्रीमिव । क्षोणीपालनिभालिताखिलमहाभीलोपम्भः पथि श्रीवाचंयमशर्वरीवरयितुः संदेशवाक्प्रेरितः ॥ २७८ ॥ श्रीशQजयभूभृतस्तनुमतां यात्रां विनिर्मित्सतां मूलान्मोचयितुं स्वयं करमथो श्रीभानुचन्द्रः सुधीः। तत्सारस्वतवमभूषणसरोवोहित्थसंस्थायिनो विज्ञप्तिं कृतवानकब्बरधरापाथोजिनीप्रेयसः ॥ २७९ ॥ अथा सूरिसंदेशलेखागमनानन्तर भानुचन्द्रनामा सुधीविद्वान् । भानुचन्द्रप्रक्षांश इत्यर्थः । तत्पूर्वव्याणितस्वरूपं यत्सारस्वतानां कश्मीराणां वर्त्मना मार्गस्य भूषणमलंकारभूतं सरो जयनललाख्यस्तटाकः तत्र वोहित्थे वहने संस्थायिनः तिष्ठतीत्येवशीलस्याकब्बरनामधरापाथोजिनीप्रेयसः पृथिवीपद्मिनीपते मीभानाः विज्ञप्तिम । यवनजाति प्रसिद्धां अरजीमित्यर्थः । कृतवान् चकार । किं कर्तुम् । श्रीशत्रुजयभूभृतो वि. मलाचलस्य यात्रां विनिर्भित्सतां कर्तुमिच्छतां श्रीशत्रुजयशैलमधिरुह्य ऋषभदेव नन्तु पूजयितु वा काङ्गतां तनुमतां भव्यजनानां कर राजदेयांशं मूलादादितः सर्घथैव स्वयमात्मनैव मोचयितु त्याजयितुम् । किंभूतो भानुचन्द्रः । श्रीवाचंयमानां मध्ये शर्वरीवरयितुः निशानाथस्य संदेशवाचा उदन्तप्रेषणेन प्रेरितः । पुनः विभूतः । पथि मार्गे क्षोणीपालेन पृथिवीपतिना साहिना निभालिता दृष्टः अखिलः समस्तः महानतिशायी आभीलस्य पीडायाः शीतव्यथायाः उपलम्भः प्राप्तिर्यस्य अत एव पथि मार्गे शीतात शीतोभृतां पीडां प्रविषह्य पर्षयित्वा । उत्प्रेक्ष्यते-वस्त्रैवसनवियुगन्ति पृथ ग्भवन्ति तेषां वस्त्ररहितानां संवर्तरात्रीं कालरात्रीमिव क्षयकारिणीम । पथि किंलक्षणे । प्रालेयेन हिमेन खिलीकृते विषमे निष्पादिते । किंवत् । शिखरवत् । यथा प्रालेयभमीभृतः तुहिनाचलस्य शिखर शृङ्ग प्रालेयेन हिमेन स्थपुटीक्रियते विषमं विधीयते ।। युग्मम ॥ શ્લોકાર્થ કાશમીર દેશના આભૂષણરૂપ જયનલલંકા સરોવરમાં વહાણમાં બેઠેલા અકબર બાદશાહ જેમ હિમ વડે હિમાચલનું શિખર વ્યાપ્ત છે તેમ બરફથી આચ્છાદિત થયેલા માર્ગે સાથે ચાલી રહેલા અને અસહ્ય શીત વેદનાને સહી રહેલા ભાનુચન્દ્ર ઉપાધ્યાયને જોતાં અત્યંત પ્રભાવિત થયા. ત્યારે ગુરુદેવના સંદેશાથી પ્રેરાઈને ભાનુદ્ર ઉપાધ્યાયે અકબર પાસે શત્રુંજય તીર્થને યાત્રાવેરે રદ કરવાની માંગણી કરી. છે ૨૭૮ ૨૭૯
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy