SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो २७२-२७४] हीरसौभाग्यम् શ્લોકાર્થ શાંતિચન્દ્ર ઉપાધ્યાયે ઘણા હર્ષ પૂર્વક પાટણનગરમાં આવીને જેમાં કૃપારૂપ સમુદ્ર અતિવૃદ્ધિને પામે છે, બાદશાહનાં ફરમાન આચાર્યદેવને આપીને, તેઓની સમક્ષ આપ્તપુરુષની જેમ સર્વ વૃત્તાંત કહી સંભળાવ્યું. ર૭૨ श्रीमत्पर्युषणादिना रविमिताः सर्वे रवेर्वासराः सोफीयानदिना अपीददिवसाः संक्रान्तिघस्राः पुनः । मासः स्वीयजनेनिश्चि' मिहिरस्यान्येऽपि भूमीन्दुना हिन्दुम्लेच्छमहीषु तेन विहिताः कारुण्यपण्यापणाः ॥ २७३ ॥ .. तेन भूमीन्दुना वसुधासुधांशुना अकब्बरेण हिन्दुम्लेच्छमहीषु राजपुत्राणां यघनानां च भूमीषु आर्यानार्यदेशेष्वपि एते प्रोच्यमाना दिना कारुण्यपण्यानां कृपाक्रयाणकाणामापणा विपणयो हटा विहिताः कृताः। तानेव दिनान्दर्शयति-रषिभिर्मिताः सूर्यप्रमाणा द्वादश श्रीमत्याः पर्युषणायाः सांवत्सरिकपर्वणः । पुनः सर्व समस्ता अपि रवेरादित्यस्य वासराः । द्वादशमाससंबन्धिनो निःशेषा आदित्यवारा इत्यर्थः । अपि पुनः सोफीयानदिना यवनजातिप्रसिद्धाः। अपि पुनरीदस्य दिनास्तेऽपि यवनेष्वेव प्रसिद्धाः । पुनः संक्रान्तीनां मेषादिकानां सूर्यसंक्रमणानां घस्रा दिवसाः। पुनः स्वीयजनेः। स्वकीयजन्मनः संबन्धी मासः । तथा मिहिरवासरास्तेऽपि यवनजातिष्वेव विख्याताः । अपि पुनरन्ये अपरेऽपि दिना वासराः ॥ કાર્થ અકબર બાદશાહે, આર્ય અનાર્ય દેશમાં પર્યુષણાના બાર દિવસે, સર્વે રવિવારના દિવસો, સોફીયાના દિવસે, ઈદના દિવસે, મેષ આદિ સંક્રાંતિના દિવસો પોતાના જન્મને મહિનો અને મિહિરના દિવસોમાં કૃપારૂપી કરિયાણાની દુકાને માંડી. ર૭૩ तेन नवरोजदिवसास्तनुजजनू रजबमासदिवसाश्च । विहिता अमारिसहिताः सलतास्तरवो घनेनेव ।। २७४ । तेनाकब्बरेण नवरोजस्य क्रीडाविशेषस्य दिवसाः, तथा तनुजानां पुत्राणां जनुषां जन्मनां मासाः, तथा रजबमासस्य दिवसाः, नवरोजः रजबमासश्च यवनेष्वेव प्रसिद्धौ। १. दिनशब्दस्य नित्यनपुंसकत्वेन पुंस्त्वघटितोऽयं प्रयोगश्चिन्त्यः, अधिजन्त. त्वात्पुंस्त्वं वा कल्प्यम्. हि० सौ० ७६
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy