________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० २६७-२६८
स हीरसूरिः ध्रुव इव ब्रह्मणीव चत्वारि मुखानि आननानि यस्य तादृशे प्रासादे विहारे श्रीमन्तं त्रैलोक्य रक्ष्मीकलितं महोक्षध्वजं वृषभकेतनमादिनाथं पुनरन्यत्र चैत्ये जिनगृहे गजध्वजं हस्तिलाञ्छनमजितनाथं जितं तीर्थकरं प्रत्यस्थापयत्प्रत्यतिष्ठिपत् । कथम् । समं सार्धम् । कैः । अनेकैः शतसंख्यैबिम्बैर्जिनप्रतिमाभिः । कैः । आसपालनाम्ना संघपतिना तथा विलसता शोभमानेन नेतानामसाधुना प्रणीतैः कृतैरुत्सवैः महामहैः । आसपालसंघपतिना चतुर्मुखप्रासादे आदिनाथस्य प्रतिष्ठा कारिता, नेताकेन श्रीअजितनाथचैत्ये श्रीअजितनाथस्य प्रतिष्ठा निर्मिता इति तत्त्वम् । किं कृत्वा । उत्तंसैः शेखरैः इव पत्कजैः चरणारविन्दैः शिवपुरीं श्रीरोहिणीनगरी परां प्रकृष्टां भूषां शोभां संप्राप्य लम्भयित्वा । ण्यन्तत्वाद्विकर्मकत्वम् ॥
પ્લેકાર્થ
ત્યારપછી શ્રીહીરવિજયસૂરિજીએ પિતાનાં ચરણકમલ વડે શિવપુરી (સીરેહી)ને અલંકૃત કરી. બ્રહ્માની જેમ ચતુર્મુખ જિનપ્રાસાદમાં “આસપાલ” નામના સંઘપતિએ બીજા જિનબિંબની સાથે શ્રીત્રાષભદેવની પ્રતિષ્ઠા કરી. અને “નેતા' નામના સુંદર શ્રેષ્ઠીએ હરેલા મહત્સવ પૂર્વક શ્રી અજિતનાથના ચૈત્યમાં શ્રી અજિતનાથ પ્રભુની પ્રતિષ્ઠા કરી. ૨૬૭ના
आरुह्यार्बुदभूधरं जिनपतीनत्वा पुनर्गुजरा
प्रस्थातुं स्पृहयन्महीपतिसुरत्राणेन मन्त्रीश्वरैः । आगृह्यायममारिनिर्मितिकरव्यामुक्तिपूर्व समा
हूतो भूषितवांस्ततः शिवपुरी वर्षागमे सरिराट् ॥ २६८ ॥ ततः प्रतिष्ठाकरणानन्तरमयं सरिराट् हीरविजयसूरीन्द्रो वर्षागमे चतुर्मासके शिवपुरी पुनभूषितवानलंकरोति स्म । किंभूतः । महीपतिना सुरत्राणनाना नृपेण मन्त्रीश्वरैः स्वमुख्यप्रधानपुरुषैः सकलेऽपि स्वमण्डले अमारिनिर्मितिर्जीवदयापालनं तथा कराणां राजदे. यांशानां जनदण्डानां च व्यामुक्तिर्मोचनं पूर्व यथा स्यात्तथा । यावन्तं समयं श्रीपूज्या मन्नगरीमलंकरिष्यन्ति तावत्कालं मदीयाखिलमण्डले अमारिं तथा जनेषु करदण्डमोचनं करिष्यामीति वाग्बन्धपूर्व कमित्यर्थः । आगृह्याग्रह कृत्वा मन्त्रीश्वरैः स्वप्रधानपुरुषैः समाहतः सम्यकप्रकारेण संमानदानपूर्वकमाकारितः । सरिराट् किं कुर्वन् । अर्बुदभूधरं हिमादिनन्दनशैलाधित्यकामारुह्याध्यास्य पुनर्जिनपतीन् चैत्येषु भगवत्प्रतिमां नत्वा प्रणम्य पुनगुर्जरान् गुर्जरजनपदं प्रति प्रस्थातुं स्पृहयन् । पुनःशब्दो घण्टा लालान्यायेनोभयत्रापि योज्यते ॥ इति शिवपुयाँ प्रतिष्ठाद्वयपूर्व कं चतुर्मासकम् ॥
શ્લેકાર્થ ત્યારબાદ આબૂ ઉપર રહેલા જિનચૈત્યનાં દર્શન વંદન કરીને ગુજરદેશ તરફ